पृष्ठम्:हस्त्यायुर्वेदः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गर्भावक्रान्त्यध्यायः } छविश्व कतमे मासि त्वग्वंशः प्रविभज्यते ॥ 'कौ नखानि रोमाणि यकृदत्राणि पुंप्फसम् ॥ ५ ॥ हृदयं कतमे मासि गर्भ जायेत दन्तिनः ॥ पोतः कथं संभवति पोतकी जायते कथम् ॥ ६ ॥ पोती पोतोऽथ यमकं मिथुनं जायते कथम् ॥ उभौ वा पोतकौ केन उभे वा पोतिके कथम् ॥ ७ ॥ कथं वन्ध्या च शण्ढश्व कोशमेही च जायते ॥ कथं मृगः संभवति मन्दो वा केन जायते ॥ ८ ॥ भद्रश्चापि कथं नागः संकीर्णश्च कथं भवेत् । मन्दो मृगमनाः केन मृगो मन्दमनाः कथम् ॥ ९ ॥ भवेत्तु जवनः केन जायतेऽल्पबलः कथम् । कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च ॥ १० ॥ कथं भवति दुर्मेधा मेधावी च कथं भवेत् ॥ मन्दमेधश्च मातङ्गचैतदिच्छामि वेदितुम् ॥ ११ ॥ कालः कथं च भवति इयामो वा केन जायते । हरिद्वर्णो भवेत्केन ठूक्षाभः केन वारणः ॥ १२ ॥ त्रिग्धच्छविर्वा मातङ्गः कथं स्यालोहितच्छविः । स लोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३ ॥ गजश्चोलूकवणभिः कथं भवति जातितः ॥ केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥ १४ ॥ बहुवर्णश्च मातङ्गः कथं भवति जातितः ।। मुद्रवर्णश्च मातङ्गोऽप्युपदिग्धश्च तत्र यः ॥ १५ ॥ श्वेताभो जायते केन एतदिच्छामि वेदितुम् ॥ नखानि केन कालानि राजिमन्त्यपि वा कथम् ॥ १६ ॥ कथं श्यामानि जायन्ते चेतान्यपि च हस्तिनः ॥ केनास्य तालुकं कृष्णं केन कल्माषतालुकम् ॥ १७ ॥ केन पद्मपलाशाभं तालू नागस्य जायते । कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम् ॥ १८ ॥ t ‘बुका' इति भवेत्। । १ क. वृष्कौ । २ क. पुष्पसम् । ४०७