पृष्ठम्:हस्त्यायुर्वेदः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ जानि शुक्रान्तानि । जरायुमांसमेदोन्गुदं धमभ्यश्चैति मातुजम् । अन्नपातो त्पन्नः संवक्ष्यमाणः । मातृपित्रोरशनविशेषात्कफपित्तानलप्रभृतीनामन्यत(म)माथुकनिषे(कं) माणि नमाश्रयति, स प्रकृतिमापद्यते ॥ वणः कृष्णश्वेतरक्तरुक्षा वातपित्तकफशोणितात्मकाः, वर्णभेदाश्च तेषाम न्योन्यसंयोगात्मकाः ।। कुब्जवामनहीनाधिकवैकृत्यमलभावाश्च वातात्मकाः ॥ विषाणानां वैषम्यं वातात्मकं भवति । संजायमानयोर्दन्तयोर्यदा समुपहरति वायुः, तदा दोषा उत्पद्यन्ते । तत्र क्षेोकौ यदा शिशुर्विचरति जीवमात्रो गर्भाशयाद्वर्भनिरोधमुक्तः । तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च । तदाऽभिलाषाङ्गविचारणं च वातादि सर्वा विविधाः क्रियाश्च ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने गर्भसंभवो नाम सप्तमोऽध्यायः ॥ ७ ।। [ ३ शल्यस्थाने अथाष्टमोऽध्यायः । अङ्गो हि राजा चम्पापां पालकाप्यं स्म पृच्छति । अजातैशृङ्गं विधिवन्निर्गतं हस्तिनं भगात् ॥ १ ॥ प्रवृत्तेऽस्मिन्यथाकाले यूथानि समवेक्ष्य च ।। यथावदनुपूर्वेण कृताञ्जलिपुटस्तथा ॥ २ ॥ इति प्रश्नं महाराजो व्याजहार यथातथम् । महान्मे संशयो विद्वन्दृष्टा वै कुञ्जरान्वने ॥ ३ ॥ गर्भः कथं संभवति संभूतः केन जीवति । अस्थिस्रायु च मांसं च कतमे मासि जायते ॥ ४ ॥ १ क. “श्रयुगं ध” । २ क. "धयुक्तः । ३ क. "तशुक्र वि° ।