पृष्ठम्:हस्त्यायुर्वेदः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गर्मसंभवाध्यायः ] इस्यायुर्वेदः । ४०५ पीतलीढस्वादितानामभिवोडा समानः । प्राणापानसमानव्यानानामन्तकालेऽ भ्युद्धर्ता चोदानः ॥ अथ तेजःस्थानानि-प्रदर्शनं चक्षुरुष्मा कायाग्रिहँदयं त्वक्पर्यन्तमिति । तत्र चक्षुर्गतं रुपाणि गृह्णाति । कायाग्रिरामाशयपक्षाशययोरन्तरस्थो धातूनां चान्तरेषु प्रयोगान्पाचयति । हृदि संश्रयात्क्रोधयति । त्वक्पर्यन्तगतश्चाभ्यङ्ग परिषेकादीन्पाचयति ॥ तत्र श्लेष्मा संधीन्संश्लेषयति, मृदुकरश्च । सप्त चास्य धातवो रसरुधिरमांसमेदोस्थिमज्जाशुक्रमिति । दश चास्य प्राणायतनानि भवन्ति शिरोहृदयनाभिगुदवस्तिवातपित्तश्लेष्म मूत्रपुरीषाणीति ॥ प्राणयात्रार्थं चास्य षड्रसाश्च मधुराम्ललवणकटुतिक्तकषायाः । तैरुपपन्नो गर्भस्तिष्ठति । तत्र त्रयाणां समवायाद्भर्भाधानं भवति मातुः पितुः, जीवस्य चेति ॥ मैथुनसंयोगात्पातिं यदाऽभिकाङ्क्षति धेनुका, तां समुत्पन्नर्तुकां (*तैस्माद्द तुस्रातां ) हस्तिनां विद्यात् । आर्तवस्य द्वादशरात्रं भवति । तस्माद्दिवा रात्रौ वा हस्तिनो हस्तिन्याश्चसंयोगे प्रादुर्भावो भवति । यदा हस्तिन्यामृतुमत्यां मत ङ्गजः संयोगेषु शुक्रमुत्सृजति तद्वायुः कोछे पविभजते । मातुराहाँरात्संवर्धते । तस्मात्कवलरसपलुवाहारासविना(?)क्षोभव्यायामतीक्ष्णोष्णाहाराविवर्जनात्स्या त्करेणुः । तत्र बहुश्रुक्रे पुमान्संभवति, स्त्री शोणितबाहुल्यात्, समे नपुंसकम्, शुक्रे तु वायुना द्विधाकृते यमलावुत्पद्येते । यदूपा()गर्भ विभर्ति धेनुका तदाकारं भवति । तत्र ग्राम्यधर्मे निवृत्ते यदा योनिमुस्वगतं शुक्रे भवति । तेच रुधिरसंसर्गात्कललं भवति । ततो जीवः संक्रामति गर्भम् । पृथिव्यापस्तेजी वायुराकाशं ज्ञानमिति षट्शरीरकारणानि भवन्ति । तत्समवायात्ततो पोन्यां कललसंज्ञो भवति परिणामात्कललः स्वरत्वं भवति । स्वतेजसा विदाहे तत्स्वरी भवति परिणामात् | खरस्यार्बुदस्य पेशी भवति । तत्र मजा च श्रुकं च नागानां गर्भस्थानां भवति । न्नाय्वस्थीनि पितृः

  • ‘केशश्मश्रुलेमास्थिनखदन्तसिरास्रायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि ,

मांसशोणितमेदोमज्जाट्टन्नाभियकृतीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि' इति सुश्रुतात् 'दृढानि पितृजानि, मृदूनि मातृजानि' इति पर्यवसितम् ॥ १ क. तेजसः स्था° । २ क. तस्मादनुस्थानां । ३ क. "हारः संव° । ४ ख. "णुः । ततश्च करेणुस्तत्र । ५ क. यच ।