पृष्ठम्:हस्त्यायुर्वेदः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ गर्भसंभवाध्यायः ] हस्त्यायुर्वेदः । ४०१ शरीरं खलु नामाहंकारात् । पृथिव्यापस्तेजो वायुराकाशमिति कर्णत्वग्जि ह्वानयनप्राणैः पञ्चभिरिन्द्रियैः शब्दस्पर्शरसठूपगन्धैश्च पञ्चभिरिन्द्रियार्थे स्वभावेन चेतनया मनसा प्राणापानादिभिर्जीवितेन चेति पञ्चविंशतिभिर्गुणै र्युक्तं न्विदमव्यक्तं व्यज्यमानं शोणितरेतस्युत्पन्नं मातुर्योनिनाङयां गत्वा विश देवगुणा भूतगुणा आत्मगुणाश्चेत्येतदनुपतन्ति । निवेश्यमानमनुनिवसन्ति । तद्यथा-भ्रमरमधुकरसंघाः पुष्पजं रजः प्रद्रवत्प्रद्रवन्ति, निवसमान(?) मनुनिवसन्ते। एवं स्वल्विदमेतत्परमाङ्गलिङ्गमात्मानमव्यक्तं वक्ष्यमाणं शोणितरे तस्युपपत्रं मातुर्याति कटिसंधौ विसन्ने(शन्तमेव स्वगुणाः स्वात्मगुणाश्चात्यन्तं तमनुपतन्ति । तैस्तस्य षट्कैोशस्थानानि भवन्ति । तत्रामगर्भदोषा वेदना व्याप्तिर्भवति । पितृजमपि खल्वस्य शुक्र मातृशोणितेन सह संप्रयुज्यमानं मारुतेन पूरि तमीश्वरभावसंयुक्तं मूर्तिमापद्यते । दक्षिणं कुक्षिभागं पुमान्समाश्रयात, वामं स्री, मध्यमितरत् । संवृतात्पिण्डायामात्पुमान्संभवति, त्री पेश्याः, अर्बुदान्न पुसकम् ।। पारपच्यमानस्तु स्वलु मासेन स्थिरीभवति गर्भः । िद्वतीये मास्यर्बुदं पेशी वा, तयोर्युगपदिन्द्रियाण्यभिनिव()र्तन्ते । शिरोक्षिकूटबाहुपृष्ठपाश्र्वोदररोमकूपाश्च तृतीये मासि ।व्यक्ती भवति गर्भः । पञ्चमे मासि चेतनाऽस्योपजायते । चतुर्थे षष्ठे मनः । सप्तमे बुद्धिः । अष्टमे मासि स्थैर्यम् । नवमदशमैकादशेषु सर्वाङ्ग संपूर्णः सप्तभिः शिराशतैः सर्वः सान्वयसमन्वितः स्थिरीभूतो नाभिनिबद्धया नाङया मातुराहारजं रसं भुञ्जानः संवत्सराद्वो वै जायते। सहदेवगुणैर्भूतगुणैरा त्मगुणश् ॥ तस्येमे देवगुणा भवन्ति-विक्रान्तौ विष्णुः । गले शक्रः । कोष्ठऽग्रिः । उपस्थे प्रजापतिः । प्राणापानयोर्वायुः । कर्णयोर्देिशः । खेष्वाकाशम् । जिह्वायां सरस्वती । पदेषु मित्रावरुणौ । चक्षुष्यादित्यः । कर्मणि विश्व कर्म । भूमिरस्य देहे । शब्दे रुद्रः । त्वचि विद्यात् (?) वाच्यमिः । क्षान्तौ ब्रह्मा । पर्जन्यो हृदये । भुजयोरश्विनौ । त्रिके मरुतः । इति देवगुणाः ॥ अथ भूतगुणाः-कर्णवदनगुदमेणैश्रोतः शब्द इत्याकाशयोनीनि ("रसो

  • अत्र किंचित्रुटितं प्रतिभाति। ! धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।

क. १ क. विपन्नमेव । २ ख. ०कोणस्था" । ३ क. रिपाच्य"। ४ व्यक्तानि भवन्ति ग" । ५ कृ. १द्वावेव जा” । ६ क. बले ।