पृष्ठम्:हस्त्यायुर्वेदः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ गर्भसंभवध्यायः ] हस्त्यायुर्वेदः । अवसानचतुष्कं वै सोऽधिकस्नु चिकित्सकः । आमूढः सर्वरोगेषु योजपेद्यो भिषक्क्रियाम् । प्रजासु च सदा मानं महत्त्वं च नियच्छति । पञ्च सप्त तथा त्रींश्च द्वावेव चतुरस्तथा ।। नव चतुर्दश द्वौ च द्विकौ ज्ञात्वा भवंद्रिपक्, इति । इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने द्वादशैोपक्रमो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः । ४०१ अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्--'भगवन्कथमुत्पन्नानि पृथि व्यादीनि, के चैषां गुणाश्चोपगुणाश्च । किं च शरीरम् । कंश्चाङ्गमभिवर्तते । कश्च गर्भः । कथं चाभिवर्धते । कथं च त्रिविधा शरीराकृतिः समा विषमा समं विषमं चाभिनिवर्तते, भद्रमन्दमृगसंकीर्णाश्च कथं निवर्तन्ते । कथं च कुब्जवामनहीनाधिकविकृताद्यान्यन्यानि च निवर्तन्ते, कथं वा कृष्णश्चेतरक्त रुक्षा निष्पद्यन्ते, मिश्रवण वा हस्तिनः । कथं वा विषमविषाणा मोटादयः समु त्पद्यन्ते, नयनम्राणत्वक्श्रोत्रजिद्वेन्द्रियाणां किमध्यात्मम्, किमधिदैवि(व)कम्, किमधिभूतम् । स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते । कथं च गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृहति । किं मातृजम्, पितृजम्, आत्मजम् । रजस्तमःसत्त्वजानि कानि । गर्भस्य वाङमनोबुद्धिरहंकारः सत् रजस्तमसामात्मा कथमुत्पद्यते, तन्मयानि शब्दस्पर्शरसरुपगन्धाश्चेति । गर्भस्य किं वा पूर्व संभवति । करचरणनयनमुखशिरोग्रीवागात्रापरसंधिवङ्क्षणनाभिदे शागुदमेण्ढ़ाणि कथं विभज्यन्ते' इति । ततः प्रोवाच भगवान्पालकाप्यः –‘इह खलु भोः परं सूक्ष्मभावार्थमप्यव्य क्तमोष्ठस्पन्दनमात्रं त्रुटिः । सर्षपमात्रमोष्ठभेदो लवः । द्वे त्रुटी लध्वक्षरः । द्वे लध्वक्षरे अक्षिनिपातसंनिभं निमेषः । निमेषास्तु दश पञ्च च काष्ठा । ता दश विंशति:(च) कला ।त्रिंशत्कलो मुहूर्तः । ते त्रिंशदहःक्षपे लोके सूर्यो विभजते । तत्र कर्मणां चेष्टार्थ दिवसः, शर्वरी स्वापायं ! त्रिंशदहोरात्राणि मासः । द्वाद १ क. द्विकोशौ । २ क. ०शोऽध्या० । ३ क. कथं वाऽङ्गमभिनिव० । ४ क.

  • मं च नि० । ९ क. "नि चाङ्गका० । ६ क. "संमितं नि° । ७ क, विंशतिकलो ।

८ क. "य । यत्तु त्रिं० ।