पृष्ठम्:हस्त्यायुर्वेदः.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो ' .३ शस्यस्थाने अभिचारसमुत्थश्चानेकव्याधिलिङ्गः । क्रियासु सम्पकूक्रियमाणास्वपि नोप शममुपैति ॥ एवं दोषसमुत्थम्, अभिचारसमुत्थं च व्याधिं समुपलक्ष्य प्रतिकुर्वीत । तस्मा जपहोममङ्गलप्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति । तत्र श्लोकः दोषाभिचारजान्व्याधीन्सम्यग्विज्ञाय तत्त्वतः ॥ यथायोगं क्रियां कुर्यान्मत्राणां नास्ति दुस्तरम् । अंशास्तकोऽपि नागानां (क्रियापथे परीक्ष्यः । यदा हस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति देवताः । ) ताश्चाऽऽशस्ताः प्रसादमभिनिव(र्वर्तयन्ति, न च भागप्यशंस्तकं बल्पं तमुपहरन्ति हस्तिजीविनः, ततो देवानां(वाता) पथोक्तां पूजामलभमाना भूयो व्याधिमुपजनयन्ति । तस्मादाशस्तकं भिषजा परीक्ष्यम् ॥ तत्र श्लोकः इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः । अन्यथा देवतानां हि क्रोधो भवति दारुणः ।। -:८>:- चतुर इति चर्तुष्पादा चिकित्सा-आतुरः, परिकर्म, भिषकू, भेषजम्, इति ॥ तत्राऽऽतुरः-सत्त्वसंपन्नः सम्यक्शस्त्रभेषजामिक्षारकर्मणां सहिष्णुः, उप दिष्टकारी, दीर्घायुर्लक्षणश्चेति ॥ परिचारकः-प्रतिपत्तिमान्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोफ्न परः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि, इति भिषक्-अवस्थितः शास्त्रार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपन्नः' इति ॥ भैषज्यम्-यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम् । इति विज्ञेयं प्रशस्त मन्येषां चतुर्ण पादानां समुदायात्सिद्धिर्भवति ॥ तत्र श्लोकाः-- एवं पश्वादिकं सम्यग्यो विद्यान्मतिमान्भिषक् ॥ '.'धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके । १ क. *शस्रकं । २ क. चतुष्पदा । ३ क. *दिष्टः करी ।