पृष्ठम्:हस्त्यायुर्वेदः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.द्वादशोपक्रमाध्यायः] हस्त्यायुर्वेदः । सप्तभारातीतमपि तृणमुपयुञ्जानस्य विक्रियां नाऽऽपद्यतेऽभिः, सुसंहितस्थिर लिण्डश्च भवति, स तीक्ष्णज्योतिवरणो विज्ञेयः ॥ मन्द्ज्योतिः-पथोक्तस्याऽऽहारस्यार्धमपि नोपयुङ्गे श्लेष्मभूयिष्ठत्वाद्भिन्न विवर्णदुर्गन्धिपुरीषश्च भवति स मन्दज्योतिर्वारणो विज्ञेपः ॥ यस्तु यथोक्ततैललवणशृततण्डुलरसभोजनयवसकवलकुवलादीन्युपयुद्धे सुमनाः स्निग्धघनलिण्डश्च भवति स समज्योतिस्रपाणां साम्याद्रवति । विषमज्योतिः-पथोक्तानि यवसरसभोजनादीनि कदाचिदतिप्रमाणेन ग्रहणं कार्यमाणो वा यत्रेनाधिष्ठितमुपयुङ्गे खरनिर्भिन्नदुर्गन्धपुरीषश्च भवति स ३९९ तत्र तीक्ष्णज्योतिरपरिमितगुरुन्निग्धाहारभतिभुञ्जानो न तृप्यति । बह्व भ्यवहरणा)द्विपुलमांसो भवति । तस्यात्याहारोपचितमांसस्य विवृतसुचिरत्वा न्मांसपेशीमार्गगतो वायुः पायसः(शः) प्रकोपमुपगच्छति ॥ मन्द्ज्योतिस्तु पदा हस्तिजीविभिग्रहणीबलमविज्ञाप मन्दबुद्धिभिरकामं भोज्यते स मन्दज्योतिरलसोऽस्थिरमांसमेदा न सुखमवाप्नोति हस्ती ॥ समज्योतिः समुदितबलजवसंपन्न उत्साहवांश्च वारणो भवति । विषमज्योतिर्विषमत्वादनिलस्य नित्यं विषमं भजमानः | स कदाचि त्स्वस्थः कदाचिदस्वस्थः कुञ्जरो भवति । अग्रिरपि चतुर्विधः-समो मन्दस्तीक्ष्णो विषमश्चेति । तत्र सभपाकी समः । मन्दपाकी मन्दः । विषमपाकी विषमः । सर्वभुक्तपाकी तीक्ष्णः ॥ तत्र तीक्ष्णविषमावपरिमितविषमपाकित्वादशस्तौ । तेषां सममन्दौ प्रशस्तौ। तत्र मन्दं दीपयेत् । समं रक्षयेत । इति ॥ तत्र लोक चतुर्विधं तु विज्ञाय ग्रहणीनां बलाबलम् । ततः प्रयुञ्जीत गजे यथायोगं क्रियापथम् । अभिचारोऽपि नागानां क्रिपापथे परीक्ष्यः । अंभिचारसमुत्थं दोषसमुत्थं च द्विविधं व्याधिमुपलक्षयेद्वैद्यः ॥ तत्र दोषसमुत्थो व्याधिः, यो यथोक्तक्रियोपशमो वातपित्तश्श्रेष्मणामसंकी र्णलिङ्गः । न चास्य नानाव्याधिलिङ्गता ॥

  • धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।

१ क. "संहत” । २ क, “ज्योतिः सतिसं° । ३ क. आभचारोत्थितं