पृष्ठम्:हस्त्यायुर्वेदः.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२ गात्ररोगाध्यायः ]
३४५
हस्त्यायुर्वेदः ।

७९ गात्ररोगाध्यायः ] हस्त्यायुर्वेद । नाडीस्वेदं कुर्याद्यथावच विमर्दनम् ॥ ततः तिलसर्षपचूर्णेन लेपनं तस्य कारयेत् ॥ अजावराहवसपा सह तैलेन घृतेन च ॥ वेसवारकृतं मांसं दद्यात्सद्यः दाहृतम् ॥ न संहरति गात्राणि न न वेछयति द्विपः ॥ मलेपं तस्य गात्राणां बहलेन समाचरेत् ॥ अथैनं पाययेत्पानं यथायोगं भिषग्वरः ॥ ततो विरितं विज्ञाय बृहणीपैरुपाचरेत् ॥ संजातमांसं यात क्रमात्कर्माणि कारयेत् ॥ सन्ने गात्रेऽपरायां वा कुर्याद्भग्रचिकित्सितम् । ४४ अथ त(य)स्य भवेन्म्लानं गात्रं वा यदिा परम् । तस्योत्पतिं प्रवक्ष्यामि सनिदानं चिकित्सितम् ॥ संग्रामे वा प्रहारैरस्तु शस्रकर्मणि वा तथा ॥ शिरा रक्तवहा भिन्ना बहु मुञ्चति शोणितम् ॥ ततः कुप्यति गात्रेषु पवनः शोणितक्षयात् ॥ स शोषयति गात्राणि सङ्गं चास्य नियच्छति । तस्य कुर्यादिदं कल्पं निस्विचं गात्रशैोषिणाम् । सेचयेत्तस्य गात्राणि सर्पिषोष्णेन दन्तिनः ॥ निचुलं फलकल्कं च जलजम्बूस्तथैव च ।। सघृतं पयसा मित्रं प्रलेपं तस्य कारयेत् ॥ विधिना च यथोक्तेन स्वदनं तस्य हस्तिनः ॥ अस्थिस्वेदं च निखिलं फालस्वेदं च कारयेत् ॥ मांसनियूपकं च तैलं चास्मै प्रदापयेत् । सर्पिः क्षीरं वसां चैव विधिना संप्रदापयेत् ॥ म्लानं संवत्सरोत्सृष्टं व्यावेधश्च न सिध्यति । इत्यब्रवीत्पालकाप्यो म्लानं गात्रं चिकित्सितम् । यस्तु निर्वेष्टितं कुर्यादावेष्टितमथापि वा ।

  • ‘दद्यात्सद्यस्तदाऽऽहृतम्’ इति भवेत् । । ‘म्लानगात्रचिकित्सितम्’ इति भवेत् ॥

१ क. मुदाऽऽहृतम् । २ क. "शोणितम् । ३ क. निचेष्टितं । ३४५