पृष्ठम्:हस्त्यायुर्वेदः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ द्वादशोपक्रमाध्यायः] । हस्त्यायुर्वेदः । ३९७ विज्ञाप दोषोपचपं यथावदृतादृत्तौ कालविभक्तरुपम् । रोगोपशान्ति प्रयतेत कर्तु दोषः प्रवृद्धो हि निहन्ति नागान् ॥ वयखिविधम्--बालं मध्यं वृद्धमिति । तदशेषतः परीक्ष्य पश्चात्क्रियापथं प्रयुञ्जीत । तत्रं ताम्रनस्वनयनतनुरोमा ताम्रोष्ठतालुजिह्वो मन्दगतिरव्यक्तकृष्णोष्ठोऽ व्यक्तपलिहस्तः श्लक्ष्णपादतनुशिख ' “ बालः । तेजोबलजवसंपन्नो ग्रहणधारणोपपन्नः समोपचितस्थिरमांसः मोहसंदाना ष्ठीव्यापास्रावापस्करपक्षयभागायामकाण्डकटीबलानां के(?)चाविलबहलता भवति मध्यमे वयसि, नागानाम्, विवर्णपरुषत्वं च ॥ तनुकायवलीचितदेहमजवं स्तब्धपालीकमल्पपित्तत्वान्मन्द्ज्योतिः संज्ञ इयमानग्रीवं प्रबलवातश्लेष्माणमविदग्धपुरीषं लङ्घनापसरणगमनतरणादिष्व समर्थ निरुत्साहतयाऽल्पवीर्यत्वाच नागमकामवन्तं वृद्धं विद्यात्, इति ॥ अत्र श्लोक वयस्त्रिविधमालोक्य ततः कुर्यात्क्रियापथम् । बालमध्यमवृद्धानामिति मे निश्चिता मतिः ।। देशोऽपि नागानां क्रियापथेष्वव इयं परीक्ष्यः ॥ कस्मिश्च स्वल्वयं देशे जातः, कतरद्धा वनमधिश्रयति, कस्मिन्वा कीदृशे देशे वारणाः संभवन्ति । अत्रोच्यते त्रिविधो देशः-जाङ्गलो ह्यनूपः साधार णश्चेति ॥ तत्र जाङ्गलो देशः पर्यवकाशभूयिष्ठस्तरुपचितः खदिराश्चकर्णतिलकतिनि शाधवशलुकीसालसोमवल्कंबद्रीकिंशुकाश्वत्थवटामलकीवनगहनो ह्यनेकशमी शिंशपासनश्रीपणककुभपीलुकरीरधन्वप्रायः, स्थिरदग्धशुष्कतरुर्बलवत्पवनवि धूयमानतरुविटपोऽल्पसलिलो मृगतृष्णिकोपगुढोऽमिदग्ध इव वरपरुषशर्करां सिकताबहुलश्चकोरशतपत्रवञ्जलारिष्टभासैचाषगोमायुजीवंजीवकोलूकलावकति त्तिर्यनुगीतचरितभूमिभागः पृषततरक्षुलोहितस्वरकरभशार्दूलगवयजम्बुद्वीपिश शरुरुचमरीचितः । तस्मिन्वातपित्तशोणितात्मका विकाराः प्रादुर्भवन्ति । स्थिरकठिनतनुदी अत्र किंचिबुटितं प्रतिभाति । + 'केषांचित्’ इतेि भवेत् । १ क, *त्र न° । २ क. १०लितह* । ३ क. "ल्कलब" । ४ ख. °न्वनः प्रा° । १ क. "रागसीक” । ६ क. "सभाष" ।