पृष्ठम्:हस्त्यायुर्वेदः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरिचतो– [३ शल्यस्थाने तत्र श्लक शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्तृतम् । शस्रकर्म प्रयुक्षानो नाऽऽबाधां प्रामुपाद्विषक् ॥ काल इति ख्यातः । यस्मात्त्रेहनस्वेदनानुवासनस्तकर्मपीडनश्धमनधूपः नाभ्यङ्गपरिषेकावगाहतर्पणाभिशस्रक्षारकर्मभक्ष्यभोज्यपेयलेहाद्या क्रियाः भयु ध्यन्ते । वातादीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु धातुवद्वण भवन्ति, अप्रकृतिस्थेषु विषमाः । तस्मात्कालं परीक्ष्य क्रियां प्रयुञ्जीतेति । तदे तच्छरीरं पुनधिाऽवतिष्ठते कल्पम्, अकल्पं च। तन्न कल्पशरीरं समदोषधातुः। प्रशभनैरिन्द्रियैरिन्द्रियार्थान्य(न)वबुध्यते । समाप्रिरुत्थानोपवेशनमचारादिषु न दीनचेष्ठः, मुखोच्छुट्टासनिमेषणोन्मेषानिलमूत्रपुरीषोत्सर्गादिपचारेषु प्रकृतिस्थ कल्पशरीरो भवति । विपरीतमकल्पशरीरं विद्यात् । काल इति व्याध्यातुरयो रप्यवस्था यस्मात्स्त्रेहनस्वेदनोत्थापनानुवासनस्पीडनधूपनमधमनाभ्यङ्गपरि षेकावगाहृतर्पणाप्रिशावक्षारकर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयुज्यन्ते वाता दीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु समाः । तस्मात्कालं परीक्ष्य क्रियापथं प्रयुञ्जीत । स च हेमन्तशिशिरवसन्तग्रीष्मप्रावृट्शरदाख्याः षट्टतवः कालः । स एव पुनविधा विभज्यते शीतेोष्णसाधारणलक्षणः । तत्र हेमन्ते शिशिरे च समत्वागतवीर्या भर्वन्त्योषधयः । प्रायसो(शो) मधुरा मधुरविपाकाः समत्वागतवीर्यत्वात् । तेन तदा पित्तस्य वायोस्तनुत्वम भिनिर्वर्तते । श्रेष्मणः प्रबलता भवति । दिवास्वप्राजीर्णादिभिश्च वसन्ते क्षेऽमा मकोपमापद्यते संनिरुद्धमार्गपचारः॥ ग्रीष्मे त्वौषध्यो दिवसकरकराभिहतशरीरा निःसृतवीर्या भवन्ति । तदा वायुः प्रबलीभवति । श्रीष्मणः क्षयः ॥ प्रावृषि शीतवातोष्माभिहतशरीराणां मातरिश्वा भूयो भूयः प्रकोपमुपग च्छति । वर्षास्वौषध्यो भवन्त्यसमत्वागतवीर्याः, न ग्रीष्मगुणयुक्ताः, न शिशिर गुणोपगताः। ततोऽस्मिवृतौ विशेषेण पित्तमुपचीयते, श्रेष्मणश्च क्षयो भवति । ६.भूयश्च शरदि दिवसकरकराभिहतानां पित्तप्रबलता भवत्यजीर्णादिभिरुपा र्जनैः । असमागतवीर्यत्वाद्रवत्यम्लभूयिष्ठत्वमोषधीनाम् । ततः पित्तबाहुल्या द्वातश्लेष्मणोः क्षयो भवति । १ ख, व्याख्यातः । २ क. ०वतन्त्यो° । ३ क. वायुर्बली० । ४ क.