पृष्ठम्:हस्त्यायुर्वेदः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाण्युरििचतो- . [ ३ शल्यस्थाने पूर्वे कर्म सु कर्तव्यं तामसेषु विशेषतः । राजसेषु प्रलोभार्थ सात्त्विके नित्यमुत्तमे । इति ॥ सात्म्यमपि वारणानां क्रियापथेषु परीक्ष्यम् । तञ्च त्रिविधम्-ज्ञातिसा त्म्यम्, प्रकृतिसात्म्यम्, रससात्म्यम्, इति । तत्र जातिसात्म्पं नाम जन्मनः प्रभृति हस्ती क्षीरमुपसेवते क्षीरपानाच धातुविवृद्धिर्भवति । एवमेव जाति सात्म्यं विद्यात् । प्रकृतिसात्म्यं नाम त्वङ्मूलपक्सकवलकुवलपछवानि सत तमुपसेवमानाः पांश्ममार्थं सलिलावगाहं स्वैराहारं च सेवमानाः शीतसात्म्या भवन्ति । इत्येतत्प्रकृतिसात्म्यं विद्यात् । रसात्म्यं नाम मधुराम्ललवणकटु तिक्तकषायाणां रसानामन्यतमो द्युपयुक्तो रसो धातुविवृद्विमुपजनयति । एव मेतद्रससात्म्यं विद्यात् । तत्र *ाषाः यथासात्म्यं प्रयुञ्जीत क्रियाविधिमशेषतः । ( 'न व्यापदं समासाद्य विषादी स्याचिकित्सकः ॥ प्रकृतिमप्यशेषेण नागानां परीक्ष्य क्रियां युञ्जीत ) तत्र त्रिविधा प्रकृति रिह वातपित्तश्रेण्मसंभवा । तां प्रकृत्पध्याये वक्ष्यामः । तत्र श्लोक तिस्रः प्रकृतयो ज्ञेया वातपित्तकफात्मिकाः । विज्ञाय तु यथावत्तां क्रियां सम्यक्मयोजयेत् ॥ व्याधिरपि वारणानां क्रियापथेषु परीक्ष्यो भवति । तत्र चतुर्विधो व्याधिः-साध्यः कृच्छसाध्यः, याप्यः, प्रत्याख्येयः, इति । तत्र साध्यः भुस्वसाध्य इत्यर्थः । सुखसाध्यो नाम प्रत्येकदोषान्वितो विकारो दीप्तांग्रेरचिर समुत्थितो दोषोऽक्षीणमांसरुधिराद्यपरिणतवयसाश्रितपरिवारकोपकरणः स्वेद स्रहविरेचनस्थापनकल्ककषायचूर्णारिष्टाचैशेषसंभारोपपन्नः साध्यः । कृच्ळू साध्यो नाम यो दोषसमवायोत्थितो मन्दाभिश्चिरसमुत्थितदोषः स्थिरगूढजा तमूलः प्रक्षीणमांसशोणितैः सुचिरातिबलाश्रयो बहुतीक्ष्णोऽनुषकोपद्रवस्तु परिचारकोपकरणोऽश्रद्दधानः श्वासी स कुच्छूसाध्यः । याप्यो नाम पस्तु ोषो वैषम्याद्दीप्ताभिर्बलवान्क्षणिमांसमेदा दीर्षायुर्लक्षणो व्याधिमवाप्तोति, न स तेन रोगेण मुच्यते, न म्रियते क्रिपया धार्यमाणः, स रोगो याप्यः । प्रत्याख्येयो नाम-यः सर्वदोषलिङ्गान्वितो विकारः क्षोभितधात्विन्द्रियब धनुश्चिद्दान्तरगतो भ्रष्टः पाठः कपुस्तके । १. क. *प्ताप्तिर० । २ क. "द्यवशे० । ३ क. ०तः स्थाविरा०