पृष्ठम्:हस्त्यायुर्वेदः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७ तत्र दोषरसविशेषा व्याख्याताः ।। इदानीं येन यथा दोषो हीयते वर्धते वा, तद्वक्ष्यामः ॥ मधुरो रसः समानरसत्वाच्छूष्माणं वर्धयति, शैत्याच्छैत्यम्, गौरवाद्रौर वम्, एकयोनित्वात् (योनिरिति) । अम्लः पुनः प्रसेकित्वात्प्रसिञ्चति । तत्प्र त्यक्षमुपलभामहे । यथा दाडिमाम्रातकमृातुलिङ्गदर्शनाज्जन्तोरास्यात्कफः प्रसि च्यते । तेन हि सिद्धं श्रेष्मलवणत्वं च । तेन चास्योन्निबन्ध इति । लवणः पुनः संधिमर्मप्रसक्तमेकान्तमाश्रितं विस्यन्दयति क्षेष्माणम्, फेनाकुलां गङ्गा मिव महामेघः । स वातपित्ते अभिभूय सर्वं शरीरमवाप्रोति, विकुरुते च विका रम्, न्नेहाचैनमभिवर्धयते, बलेनेवानुबलम्, स्पशाच विधीयमानः कोपाप कल्पते । इति मधुराम्ललवणास्रयः श्लेष्माणं वर्धयन्ति ॥ तिक्तस्तं विरोधित्वात्प्रशमयति । माधुर्ये चास्प बलाद्विनिहन्ति, लाघवेन गौरवमभिभूय शमयति । कषायोऽपि स्रक्षादेनमुपशोषयति । स हि रुक्षाभिभू तोऽपि शोषमापद्यते, इति । कटुकस्त्वौष्ण्याच्छेष्मणो विलयनमानयति । शोषं चोपजनयति । लाघवेन गौरवमभिभूय शमयति । इति तिक्तकटुकषाया रसास्रयः श्लेष्माणं शमयन्ति । कटुको रसः समानरसत्वात्पित्तं वर्धयेत् । तैक्ष्ण्यातैक्ष्ण्यम्, औष्ण्यादौ षण्यम्, रौक्ष्याद्रौक्ष्यम्, लाघवालाघवमेकपोनिरिति । अम्लः पुनः समानगुण त्वात्पित्तं वर्धयति । विदाहित्वाद्विदाहं वर्धयेत् । तैक्ष्ण्यातैक्ष्ण्यं कोपयति । बलेनास्य बलमनुविधीयमानं प्रकोपाय कल्पत इति । लवणस्तैक्ष्ण्यादौष्ण्या चाभिवर्धयते पित्तम्, विस्यन्दित्वाद्रवी करोति । इति कटुकाम्ललवणास्रप पित्तमभिवर्धयन्ति । तिक्तः पुनः पित्तं प्रशमयति, शीतवीर्यत्वादौष्ण्यम्, मार्दवेन चास्य तैक्ष्ण्य मभिभवति । कषायस्तैक्ष्ण्यं मृदूकरोति, शैत्यादौष्ण्यम्, मधुरानुबन्धित्वाद्धल मुपहन्ति, इति । मधुरः पुनर्माधुर्यात्कटुत्वमभिभवति, शैत्यादौष्ण्यम्, त्रेहा द्रौक्ष्यम्, अविदाहित्वं गौरवेणाप्यभिभवति । इति तिक्तकषायमधुरात्रयः पित्तं शमयून्ति । कषापः पुनर्वातं वर्धयति, रौक्ष्यात्परिशोषित्वान्माधुर्याच्छैत्पादभिस्यन त्वाच कोपयति । तिक्तस्तु रसः कषायरसस्वभावत्वात्कषायसमानगुणः समु द्दिष्टः, इति वातं वर्धयेत्। कटुकोऽप्येनमुदीरयति । रौक्ष्याछाघवाचैनम् । कषा यांतक्तकटुकान्नयो वातं वर्धयन्ते, इति ॥ १ क. वर्धयते । २ क. “दाहं च व० ।