पृष्ठम्:हस्त्यायुर्वेदः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ द्वादशोपक्रमाध्यायः] हस्त्यायुर्वेदः । भेदांस्त्वेत एव निवृत्ताः-श्रेष्मप्रकोपादुरुश्धेतस्तनकचहृदपोन्छेदपसेका भक्तच्छन्दाभिषण्णाविपाकारोचककूमिकोष्ठकण्डूवैवण्यानि क्षयश्चेति । पित्तम कोपात्पित्तरोगमृदुशीताभिलाषाभितापदाहमदमूछच्छासा भवन्ति । एत एव शोणितप्रकोपेऽपि भवेयू रोगाः । वातादुदावर्तानाहशूलदन्तग्रहपाश्र्धष्ठोदरक टीग्रीवाशिरोग्रहशिराध्मानस्नायुपीडनानि चेति । संनिपातेऽप्येतान्येव सर्वाणि वातपित्तश्लेष्मसु विमतिपन्नेषु प्राणादिषु च लक्ष्यन्ते । इत्येतदधिष्ठानं चेति । पञ्चभूतात्मको रसः । प्रायो रसाः पुनः षट्-मधुराम्ललवणकटुतिक्तक षायाः । मूलं चैतदधिष्ठानस्य भवति । रसा ह्यस्य सात्मीभूता गुणवत्वेऽपि भवन्ति । अगुणवत्वेऽपि विपरीताः । आहारोऽप्यस्य चतुर्विधः। द्विधा विपाकः षडास्वादो भवति । तत्राज्ञेयाः कट्टम्ललवणाः, ते लघु पच्यन्ते कटुविपाका इति । (मधुरतिक्तकषायाः सौम्याः, ते गुरु पच्यन्ते मधुरविपाका इति ।) तत्र श्रेष्मा सोमात्मकः त्रिग्धः शीतो मृदुर्मधुरो गुरुर्लवणानुबन्धी श्वेतः पिच्छिलश्रेति । पित्तं पुनरामेयमुष्णं तीक्ष्णं रुक्ष लघु कट्टम्ललवणानुबन्धि विशदं पीतं रक्तं विदाहि कृष्णं चेति ॥ वायोः पुनरयं स्वभावः शीतो रूक्षः सूक्ष्मो व्यवाय्याशुकारी, अदृश्यो बली वेगवान्स्पर्शवांश्च लघुरनास्वाद्यः, तस्य नोपलभ्यते रसः, इति प्रतीत्यनीके भ्योऽस्यानुमेयो रसः ॥ एवंस्वभावा वातपित्तश्लेष्माणः, तेषां वैकृत्यमन्योन्यसंसर्गात् ॥ शोणितमपि पित्तसमानमपि ग्रहणं चेति । रसः पुनर्मधुरः स्निग्धः शीतलो मृदुर्गुरुर्दीर्घविपाक्यविदाही पिच्छिल श्रेति ॥ कषायस्तु रसो रुक्षः शीतलो लघुर्विष्टम्भ्यविदाही चेति ॥ तिक्तस्तु रसः कषापरसस्वभावात्कषायसमगुणः, तीक्ष्णो विशेषेणेति ॥ कटुस्तु रसस्तीक्ष्णोष्णलघुरूक्षः क्षिप्रकारी विदाही चेति ॥ अम्लस्तूष्णोऽभ्यन्तरे विदाही बहिः शीतः श्लेष्मस्थाने च तीक्ष्णः सद्यः प्रसेकी क्षिमपाकी स्रिग्धश्चेति । लवणः पुनस्तीक्ष्णोष्णः स्रिग्धो लघुर्विदाही चेति ।

  • धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ॥

३८९ १ क. ०दास्त्वत । २ क. ०रोगेग्र० । ३ क. चैतेऽधि० ।