पृष्ठम्:हस्त्यायुर्वेदः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८४ पालकाप्पमुनिविरचितो – [३ शश्वस्थाने, विपरीतैः । तत्र बलतृप्न्युपचयकरः श्रेष्मा । पित्तमाहारं पचति । वायुश्रेष्ठाप्रव र्तकः पश्चधा प्रविभक्तः ॥ द्वावित्याहारोपचारौ। ताभ्यामिष्टदेशकालोपपन्नाभ्यां वाताद्दपः समीभवन्ति । चनुर इति चतुर्विधो भूतग्रामः स्वेदजाण्डजोद्रिजजरायुजाख्याः । तदधीना चिकित्सा । तत्रापि द्विविधा योनिः-वरा स्थावरा च । तत्र कृमिकीटपतङ्ग पिपीलिकादंशमशकनागचतुष्पदाश्चराः । ओषधिर्वनस्पतिर्वानस्पत्यो वीरुधः स्थाबराः। तत्र स्तम्भवत्यः फलपाकान्ता ओषध्यः । पुष्पफलवत्यो वानस्पत्यः। अपुष्पाः फलवत्यो वनस्पतयः । गुल्मलतावछीमतानवत्यो वीरुधः । इत्येष चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवर्तते । ततो रसाः प्रजायन्ते, इति ॥ --:<->:- नव इति । प्राणापानव्यानोदानसमाना मानसचेतना (*धातु)बुद्धयः । तत्रोध्र्वः प्राणः । स ऊध्र्वगोऽभिन्यस्तनिःश्वासक्षवथुकर्मा शरीरं श्रेयसे निर्युनक्ति । अपानोऽधस्तात्पकं पकं मूत्रपरीषमुत्सृजति । समानः पुनर्मध्ये चाभ्यवहृतं पचति धारयति । व्यानोऽभिवहति शरीरं धातुष्वाहारमनुपकम् । उदानस्त्वाहारमनुपकमुपनयत्यामाशपादूध्र्वम् । एवमेते योगवाहाः प्रविभक्ताः पञ्च धातुषु प्रतिपद्यन्ते । विप्रतिपन्नास्ते मध्येऽधस्तिर्यगूध्र्वबहिरन्तरवस्थिता भ्रमन्तो वा विविधाः त्रोगानुत्पादयन्ति । तत्र प्राणविप्रतिपत्तौ दुःखोच्छासमहोच्छासानुच्छासवित्त विभ्रमक्षवथुवमथुच्छासाः प्रादुर्भवन्ति|अपानविप्रतिपत्तौगृभ्रसीश्वासजघनशूलक हूवर्तेन्द्रियोपरोधाश्मरीबस्तिमुष्कगुददेशोपसृष्टमूत्रपुरीषविकाराः प्रादुर्भवन्ति। समानविप्रतिपत्तौ चाग्रदौर्बल्यारोचकहृदयोत्छेदापसरणानाहोपद्रवदाहज्वर जठरशूलगुल्महृद्रोगद(र्व); संभवन्ति। व्यानविप्रतिपत्तौ धातुवैषम्यव्यतिक रश्च, तेषां वैषम्यव्यतिकरेभ्यो गदास्त्वग्दोषश्वयथुरेकाङ्गगलरोगनिभगमन्थन तोदनभेदनवेपथुश्चासरोमहर्षग्रन्थिहृदयप्रसेकोन्मथनोदावर्ताः संभवन्ति । उदना विप्रतिपत्तावन्त:मतीघातसृष्णाश्लेण्माभिषण्णशिरोगमन्याग्रहकण्ठेस्वरश्रोतो क्षिविकारा घुरपुरावसेकोत्कर्णकाः संभवन्ति । इत्येष प्राणादिपञ्चवायुमको पतो रोगसमुद्देशः । * धातुपदं प्रक्षिप्तमग्रिमग्रन्थानुरोधात् । १ ख. १विधाभू” । २ क. श्रेयसा । ३ क. “ण्डूतावर्तेन्द्रि ४ क. "हायत्प्र वदा० । ९ क. ९ण्ठश्रवसोतो० ।