पृष्ठम्:हस्त्यायुर्वेदः.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ द्वादशेोपक्रमाध्यायः] हस्त्यायुर्वेदः । ३८७ वारणानां यथाशात्रं क्रियां कुर्यादतन्द्रितः । विज्ञाय तु यथावत्तां यथाकालं प्रयोजयेत् ॥ प्रयोगकुशलो पस्मादसंमूढो जितेन्द्रियः । स कर्मसु परां सिद्धिं प्राप्रेोति भिषगुत्तमः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने तृतीये शल्यस्थाने व्रणोपक्रमलक्षणोपक्रमो नाम पञ्चमोऽध्यायः ॥ ५ ॥ अथ षष्ठोऽध्यायः । अथ खलु रोमपादोऽङ्गपतिरपृच्छद्भगवन्तं पालकाप्यम्--'भगवन्, किं ज्ञात्वा वैद्यो भवति । एतन्मे व्याख्यातुमर्हसि ' ॥ ततः प्रोवाच भगवान्पालकाप्यः–‘इह स्वलु भोः पञ्चव, सप्त, त्रीन्, द्वौ, चतुरो, नव, चतुर्दश, चतुरश्च ज्ञात्वा भवेद्रिषक् ? इति । । तत्र ‘पश्च' इति पदवोचत्, तदनुव्याख्यास्यामः । तत्र ‘पृथिव्यापस्तेजो वायुराकाशम्' इति । तत्र पञ्चगुणा पृथिवी । चतुर्गुणा आपः । त्रिगुणं तेजः । द्विगुणो वायुः । एकगुणमाकाशम् ॥ शब्दस्पर्शरसरुपगन्धवती पृथिवी । शब्दस्पर्शरसरुपवत्य आपः । शब्दस्प शरुरूपवत्तेजः । शब्दस्पर्शवान्वायुः । शब्दचदाकाशम् । तत्र पृथिवी धारणे । आपः छेदने । तेजः पाचने । वायुव्यूहने । आका शमवकाशदाने ॥ तस्मात्पञ्चवर्गेऽयं प्रधानः, ततोऽभिप्रणीतं सर्वं दन्तिनाम् ॥ तत्र स्वमित्याकाशः । आकाशाच्छब्दः शौषिर्यं च । अनिलात्स्पर्शः प्राणा दयश्च । दृष्टिः पाकः प्रकाश ऊष्मा पित्तं च तेजसः । स्रह: छेदः शैत्यं रसो रसनं चोदकात् । घाणवान्गन्धः संघातश्च भूमेरिति ॥ सप्रैते शरीरे धातवः--रसो रुधिरं मांसं मेदोऽस्थि मज्जा शुक्रम् । इति ॥ त्रीनिति वातपित्तश्लेष्माणः । तैर्हि शरीरं . धार्यते । समैः सम्यम्, वैषम्यं १ ख. “थिव्यतेजो । २ स. ०र्शवद्वायुः । ३ क.*भिप्राणान्तं स० । ४ क. सात्म्यम् ।