पृष्ठम्:हस्त्यायुर्वेदः.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ पालकाप्यमुनिविरचितो स्रहपानं च सेकं च सर्पिः न्निग्धं च भोजनम् । नित्यमेव हितं तस्य कारयेत्स सुखी भवेत् ॥ ३५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने षड त्यपोपचारो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः । [३शल्यस्याने अथ भगवन्तं पालकाप्यं रोमपादः पुनरेवापृच्छत् -* भगवन्निरवशेषा णामामन्तुकानां लक्षणमभिहितम्, पे त्विमे वणा आसन्नमत्ययाः, तेषां प्रयोग सामथ्र्प योनिदोषं पृथक्त्वेनाऽऽकृतिविशेषानुपक्रमविशेषांश्च (?)कति च व्रणो पक्रमाः, किं साध्यासाध्यलक्षणम्, अन्वयप्रकृतिसात्म्यम्, इत्येतद्यथोपदिश्यमा नमिच्छामि वेदितुम् ' इति ॥ एवं महर्षिभिरभिहितः, शुश्रूषा च (?) रोमपादाय संस्कृतपदविचित्रं हेतूप नयननिगमयुक्तमुवाच वाक्यम्-‘वत्स, एतेषु चतुषु कर्मस्कन्धेषु द्विरदपतयो व्याख्याताः । तेषां यथास्थानोपगतानां व्रणानां लक्षणविशेषमनुव्याख्या स्यामः । तद्यथा-अल्पवयसः कवलकुवलभोजना महान्तमध्वानं च यदा वाह्यन्ते ( दिवसकरकराभिसंतप्तशरीरा बद्दपगूद्वैरिव च पवनबलप्रवेगैरभिह न्यमानाः क्षितितलमभिपतन्ति पांशुप्रमाथान्निषेवमाणाश्च न सलिलमवगा हन्ते ।) शुष्कौष्ठकण्ठवदनाः केचित्, केचित्सुदूराध्वानमुपगताः पांशुकर्द मशेवालपर्णकृमिंजुष्टं सलिलमुपसेवन्ते । तेषां वायुरतिबलः खरपरुषः शीतो ध्मानात्मकः संघातवियोगकारी प्रकोपमुपगच्छति द्विरदपतीनां देहेषु । तेषां त्वक्चरणहस्तकुक्षिवदनस्वकर्णेष्वेवमादिषु चाङ्गप्रदेशेषु व्रणाः संभवन्ति स्वराः स्फोटवन्तः पुरुषाः फेनानुविद्धाः पिच्छिलाः स्राविणः प्रायशश्च गम्भीरा नुगतभावा भवन्ति, अस्थिविवरभागाश्रयाश्च मांसमभि विगाह्यन्ते, तद्वातव्रण लक्षणं भवति । अथ सलिलधरविसर्गकाले वीरुद्वनस्पतिवानस्पत्यानामौषधीनांमुपयग तीर्यत्वादम्लरसभूयिष्ठत्वम(मु)पगतानां सेवनात्पित्तसंजननं भवति । भूयश्च शरदि दिवसकरकराभिहतदेहानां सृजातेयवसकवलकुवलानां वीर्य

  • धनुश्चिद्दान्तरगतो नास्ति पाठः खपुस्तके ।

१ ख. रोमपादीयं । २ क. ०मिदुष्टं । ३ ख. १०नामप• । ४ कं, *त्वमग* ॥ ९ क. १०तयसः क° ।