पृष्ठम्:हस्त्यायुर्वेदः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षडत्ययेोपचाराध्यायः] हस्त्यायुर्वेदः ।ः । ३८३ वाताभिभूता नीरक्ताः स्फुटन्त्यस्य शिरास्ततः ॥ हृदयं पीड्यते चास्य तृष्णा चैवोपजायते ॥ २१ ॥ स पाण्डुवणे विमना म्रियते शोणितक्षयात् ॥ तस्माच्छिराव्यथो नित्यं वारणानां निगर्हितः ॥ २२ ॥ अपाटने च पंकस्य प्रवृद्धो दोषसंचयः ॥ दहत्यमिििरवोदीर्णः सदोषोऽन्तर्गतो गजम् ॥ २३ ॥ तस्य मांसानि मेदश्च सिरा स्राय(यू)नवाप्यथ ।।

  • शातायैत्यतिवृद्धस्तु चिरकालमुपेक्षितः ॥ २४ ॥ '

इत्येते प्राप्तकालस्य दोषा दृष्टास्त्वपाटनम् ॥ इत्येष पालकाप्येन शत्रकर्मणि हस्तिनाम् ॥ २५ ॥ षडत्ययोपचारस्तु यथावत्समुदाहृतः ।। न तिर्यक्पातयेच्छत्रं सर्वेष्वङ्गेषु पार्थिव ॥ २६ ॥ शिरास्थिमर्मसंधीनामन्तरेषु निपातयेत् ।। यथा शिरास्तथा पत्रं सर्वगात्रेषु वो हरेत् ॥ २७ ॥ एषण्याऽन्वेष्य विधिवदनुलोमं मपाटयेत्।। आसनेऽथ कलाभाने क्षये वंशे कटे तथा ॥ २८ ॥ भागेष्वेतेषु नागानां वृत्तच्छेद्यानि कारयेत् ॥ शेषेष्वेतेषु भागेषु वृत्तच्छेद्य न कारयेत् ॥ २९ ॥ न काकुपदकं कुर्यान्न चातिबहुपादकम् ॥ तत्र शत्रपदं कुर्याद्वयङ्गलल्यङ्गलान्तरे ॥ ३० ॥ पञ्चाङ्गलान्तरे वा स्यादथवा चतुरङ्गलम् । नवाङ्गुलं वा नागस्य शत्रकर्म विधीयते ॥ ३१ ॥ यदृच्छया सिद्धिरपि पण्डितानामसंगता ॥ नयेन क्रियमाणेन विपत्तिरपि शोभना ॥ ३२ ॥ नैवातिशीतो नात्युष्णः शीर्णरोमाऽथ पिण्डितः ॥ पकोदुम्बरसंकाशः श्वयथुः पाकमागतः ॥ ३३ ॥ शत्रेण वृद्धिपत्रेण वाऽस(शि)तेन सि(शितेन वा ॥ शस्रकर्मणि निष्णातः सुपकं पाटयेद्विषक् ॥ ३४ ॥

  • ‘स तावत्प्रति' इति भवेत् । । इतः परं कियत्रुटितं प्रतिभाति ।

१ ख. पकश्च । २ क. *षोऽवगती । ३ क. “यत्प्रति” । ४ ख. १था शरा स्तथा शस्त्रं स' । ९ ख. वारयेत् । ६ क. भोगेषु ।