पृष्ठम्:हस्त्यायुर्वेदः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो पातयेत्सहसा वैद्यस्तदा हिंस्याद्नेकपम् ॥ वेपथु श्वयथु चैव शोषं सहृदयामयम् ॥ ७ ॥ एषामन्यतमं ज्ञाशु व्याधिमामोत्यनेकपः ॥ स्रायुच्छेदेन खञ्जत्वं गद्रदत्वं च जापते ॥ ८ ॥ मृणालमुस्वसंस्थानो व्रणश्चास्योपजायते ॥ चिरकालश्रु(घु)तश्चापि संधानं नैव गच्छति ॥ ९ ॥ तिर्यक्प्रणिहिते शत्रे शृणु दोषानतः परम् ॥ दाहँदोषान्वितः स्तब्धः सरागः सपरिश्र(स्र)वः ॥ १० ॥ न रोहति व्रणश्चास्य क्रियमाणेऽपि भेषजे । आमच्छेदे तु रुधिरं दावाभिरिव कुप्यति ॥ ११ ॥ कुपितं कोपयेत्पित्तं त्वङमांसं चापि दूषयेत् ॥ वायुना सह संगम्य चयथं जनपेदृशम् ॥ १२ ॥ ततोऽस्य वेदना घोरा वायुश्चैव वर्तते । अतिप्रवृत्ते दाहे तु विसर्पस्तस्य जायते ॥ १३ ॥ पीतनीलारुणनिभैः स्फोटैः समुपचीयते ॥ न तिष्ठत्यथवा रक्तं स्रायुच्छेदो यथा भवेत् ॥ १४ ॥ संधिच्छेदे त्वसंख्येया दोष दृष्टा नराधिप ।। निर्हरेत्संधिदेशे तु जलैौकोभिस्तु शोणितम् ॥ १५ ॥ दुष्टं न मुतं रुधिरं घनी भवति वायुना ॥ तेजसा पित्तदाँतौ च पाकं चैव नियच्छतः ॥ १६ ॥ एते दोषाः प्रदुष्टस्य रुधिरस्याप्रवर्तनात् ॥ अप्रदुष्टस्य निश्रा(स्रावे दोषान्वक्ष्याम्यतः परम् ॥ १७ ॥ केवलं दृष्टकर्माणो शास्त्रज्ञाश्चिकित्सकाः ॥ भागाभागमजानन्तः शिरा हिंसन्त्यबुद्धयः ॥ १८ ॥ ततः श्रस्रवति नागस्य शोणितं जलयन्नवत् । न च तिष्ठति दाहेन यदुर्वर्णमथो ह्यतः ॥ १९ ॥ गजानां मांसशोषैर्यपिष्टं संप्रवैर्तते ॥ ततो रक्तक्षयामागे वायुर्मर्माणि कृन्तति ॥ २० ॥ । १ क. “हवेषा० । २ क. ०षादपि न० । ३ क. ०शेष ज° । ४ क. ०वाते मामात्र"। ९ क. "क्ष्णवा.॥ ६ ख, "वर्धते ।