पृष्ठम्:हस्त्यायुर्वेदः.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचिती - [शश्यस्थाने भूयः किमन्यदिच्छेत्वं(स्त्) वरदोऽस्मि तवानघ ॥ ततोऽङ्गपतिरक्षुद्रो विनयात्पुनरुत्थितः ॥ ५८ ॥ अकल्पानां च नागानां कल्पानां च तपोधन ॥ अरिष्टं ज्ञातुमिच्छामि दूतानां चैव लक्षणम् ॥ १९ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।। शृणु मे संर्वमेवैतदविक्षिपेन चेतसा ॥ ६० ॥ अत्यर्थ दुर्मना यस्तु स्तब्धकर्णशिरोधरः ॥ न च वेदयते संज्ञां यथा प्रेतस्तथैव सः ॥ ६१ ॥ अत्यर्थं तु यदा नागो मक्षिकाभिरुपास्यते ॥ अकस्मादेव राजेन्द्र नायमस्तीति निर्दिशेत् ॥ ६२ ॥ (* छायायां गच्छतो यस्य शिरो यस्य न दृश्यते ॥ वारणस्य नरव्याघ्र तं भेतमभिनिर्दिशेत् ॥ ) ६३ ॥ क्रिया सम्यक्प्रयुक्ताऽपि पदा नागस्य हीपते । रोगेषु साध्यमानेषु तदरिष्टस्य लक्षणम् ॥ ६४ ॥ अतः परं प्रवक्ष्यामि दूतानामपि लक्षणम् । चित्रमाल्याम्बरधरान्स्पृशतश्च नस्वांस्तथा ॥ ६५ ॥ मुक्तकेशैकवस्रांश्च दीनां व्याहरतो गिरम् ॥ पृच्छकांस्तादृशो दृष्टा न गन्तव्यं भिषग्वरैः ॥ ६६ ॥ आमं मांसं सवत्सां गां ब्राह्मणाऽशुक्रुवाससः । उद्धृतां च महीं दृष्टा वाराहं चक्रमुत्थितम् ॥ ६७ ॥ दधि प्रभिमं च गजं पूर्ण च कलशं तथा ॥ ६८ ॥ एतानि च निमित्तानि शुभानि च शिवानि तु ॥ मस्थितैर्यदि दृश्यन्ते सद्यः सिद्धिर्भुवा भवेत् ॥ ६९ ॥ शुभशब्दे च गन्धे च सानुलोमे च मारुते | प्रस्थिते सर्वकार्याणां सद्य:सिद्धिर्भुवा भवेत् ॥ क्रिया सम्यक्प्रयुक्ताऽपि भिषग्भिः कालसंभूतैः ॥ ७० ॥

  • धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके ॥