पृष्ठम्:हस्त्यायुर्वेदः.pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । व्यपोहस्व च पापानि इह राज्यं शतं समाः ।। स्वया विसृष्टाः करिणो मनुष्याणां च संगताः ॥ ९२ ॥ अविसृष्टं त्वया नापि भोतुमर्हति कश्चन ॥ . अपूतिमांसं सा रक्षमुपधापरिवर्जितम् ॥ ९३ ॥ . अनारुढं हि मनुजैस्त्विमारुख कुञ्जरम् ॥ गृहाण व यथावत्वं सेनान्ये भद्रमस्तु ते ॥ ९४ ॥ , संप्रयच्छन्तु नागानां वर्णारोग्यपशांसि वै स्वाहा । "ादायुधं ताम्रचूडं शतपत्रं मनोरमम् ।। ९५ ।। विचित्रपत्रं रक्ताक्षं कुकुटं दर्शयामि ते ।। " कुकुटं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ ९६ ।। संप्रयच्छन्तु नागानां वणरोग्ययशांसि च । दंष्ट्राधरं चतुष्पादं पृथिव्यामुग्रदर्शनम् ॥ ९७ ॥ करेणुगात्रं रक्ताक्षं वराहं दर्शयामि ते । । । वराहं तु गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ ९८ ।। संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥ प्रभूतवर्ण लाङ्गलं सर्वाङ्गसमाहितम् ॥ ९९ ॥ धौतमामलकैः पूतैश्छागं संदर्शयामि ते ॥ छागमेतं गृहणि त्वं सेनान्ये भद्रमस्तु ते ।। संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥ १०० ।। सहस्रमूलाव(द)नतं देवराजविलेपनम् ॥ प्रवरं सर्वमूलानामुशीरं दर्शयामि ते ॥ १ ॥ उशीरं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ २ ॥ संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥ वैराजां त्विमां भालां सहस्राक्षेण धारिताम् ॥ ३ ॥ संभूतां पर्वतश्रेष्ठ आहृतृगन्धमौदनात् ॥ नैौरायणकृतावासां बलदेवमियां शुभाम् ॥ ४ ॥ गृहाण मालां प्रवर सेनान्ये भद्रमस्तु ते ।। संप्रयच्छस्व नागार्नां वर्णारोग्यशांसि च स्वाहा ॥ १०५॥ इमाममृतसंभूतां देवतानां मनोहराम् ॥ भीतिसंजननीं देवीं भूतनागनिषेविताम् ॥ ६ ॥