पृष्ठम्:हस्त्यायुर्वेदः.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ सद्यःक्षतचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । कन्दैर्विशमृणालानां क्षीरवृक्षत्वचाऽन्वितैः ॥ छायायां परिषेकं हि कारपेद्विधिवद्रिषळू ॥ १५ ॥ अभ्यद्वैः परिषेकैश्च शीतैः पानैर्घतस्य च ॥ सुखमस्प भवेत्तेन न च दोषः प्रबाधते ॥ १६ ॥ अभिघाताद्विषाद्वाऽपि द्विपस्य श्वयथुर्यदा । उत्पद्यते भिषग्वीरस्तदेनं कारयेद्विधिम् ॥ १७ ॥ चन्दनं पद्मकं पत्रं शैवलं सुनिषण्णकम् ॥ क्षीरपिष्टानि सर्वाणि घृतेनैतत्मलेपनम् ॥ १८ ॥ सर्पिषाऽभ्यञ्जनं कार्य प्रदेहो वा न संशयः ।। अथवैतेन कल्पेन विशेषो नोपलभ्यते ॥ १९ ॥ कुठाराकृतिशत्रेण ततस्तं प्रच्छयेद्विषक् ॥ नातिगाढं न च लधुं न धनं विरलं न च ॥ २० ॥ पदे पदं न दद्याच शिरासंधींश्च वर्जयेत् ॥ जम्बूशीरपलाशैश्च पद्मिन्याचैव कर्दमैः ॥ २१ ।। लेपयेद्घृतसंयुतैस्ततः संपद्यते मुखी ॥ ईषत्कषापमधुराः कषायास्तु रसास्तिलाः ॥ २२ ॥ रक्तपित्तानिलहरास्तेषां कल्कः प्रशस्यते ॥ कषायातु रसाच्छेष्मा माधुर्यात्पित्तमेव च ॥ २३ ॥ त्रेहाच शमयेद्वातं तस्मात्कल्कोऽयमिष्यते ॥ धृष्टदष्टविदग्धानां क्षीरवृक्षत्वचाऽन्वितः ॥ २४ ॥ हितो गजानामत्यर्थ लेपः सद्यःक्षतेषु च । उद्रमो द्विविधो राजन्यदि मर्माश्रितो भवेत् ॥ २५ ॥ सुपकं छेदयेदाशु नापकं तु कदाचन ॥ मर्मसंरक्षणार्थं च यत्नं कृत्वा तु दन्तिनाम् ॥ २६ ॥ दोषमन्तरतः कृत्वा ततः शत्रं निपातयेत् ।। मर्मण्यभिहतो यस्माद्विपो मरणमृच्छति ॥ २७ ॥ मर्मति मारणादुक्तं नैरुक्तनैव हेतुना । निमित्तैर्विविधैर्देहं गजानां विवृणोति यत् ॥ २८ ॥ तस्माद्धि वारणेन्द्राणां ब्रण इत्यभिधीयते । ठूढेऽपि हि ब्रणे यस्माद्व्रणवस्तु न नश्यति ॥ २९ ॥ १ क. शैलेयं । २ क. ०स्तं पृच्छ० । ३ क "ष्टदृष्ट” । ३७५