पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति श्रीपालकाप्ये हस्स्यायुर्वेदे बहाश्वचने वृद्धपाडे चतुर्थ उत्तरस्थाने अङ्गो हि राजा चम्पापां पालकाप्यं स्म पृच्छति । हितार्थमब्रवीद्वाक्यं गजार्थ तत्त्वदर्शनः ॥ १ ॥ भगवञ्श्रूयते मृत्युर्गजानां जलजो गजः ॥ तत्र वेदितुमिच्छामि भगवन्संशयो हि मे ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।। शृणु राजञ्जले यादृग्यस्मिस्तिद्वेज्जलद्विपः ॥ ३ ॥ अगाधर्मातिसंस्रिग्धं क्षसं यश्च सफेनिलम् ॥ सबुदुदं सनिषेषं पक्षिभिर्यशन सेव्यते ॥ ४ ॥ असौम्यं दर्शने यश्च तस्मिस्तिष्ठजलद्विपः ॥ वदनं वारणस्यैव दन्तान्किरमस्तकाः ॥ ५ ॥ पादाश्वास्य समास्तस्य आष्ठन्नाभिनवास्तथा । श्रुत्वाऽस्य गर्जितं सद्यः पीत्वा च सज्जलं गजाः ।। आयुःसत्त्वबलोपेता वयस्या नीरुजाः स्मृताः ॥ ८ ॥ अष्टम्यां च चतुर्दश्याथमावास्यां च,धार्मिकः ॥ ९ ॥ मदीपञ्चविधानेन वा कुर्यात्मयलतः ॥ पानेऽववाहे मातङ्गो यदि तद्भोवरो.भवेत् ॥ उच्यतेऽत्र क्रिया येन मुक्तो नागो भवेत्सुखी ।