पृष्ठम्:हस्त्यायुर्वेदः.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एभ्यश्च पूछ दान्तं विषयं वाऽपि कृत्रिम ॥ अजीर्णमसङ्ककमावाहं न प्रयोजयेत् ॥ १३ ॥ गजानामथवाऽन्वानां महिषाणां गवामपि ॥ नरादीनामथान्येषां सत्त्वानां सर्वदा हितम् ॥ एवमेतत्ययोक्तव्यं भिषजा सिद्धिमिच्छता ॥ १४ ।। इत्येतदङ्गाप विशेषतो वै प्रोक्तं मया सर्वमिदं हिताय । संजीवनं.वामिविवर्धनं च हितं गजानां लवणं यथावत् ॥ १५ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदे चतुर्थ उत्तरस्थाने लवणयोगोऽ ध्याय एकोनत्रिंशः ॥ २९ ॥ अथ त्रिंशोऽध्यायः । पालकाप्यमुवाचाङ्गो रोमपादो महायशाः ॥ गुणा पे पांशुदानस्य प्रमाणस्य च ये गुणाः ॥ १ ॥ केषामदेयो देयो वा वारणानामुदाहृतः । येषु कालेषु वा दत्तो गुणोपेतः स्मृतः सदा ॥ २ ॥ अथ पृष्टं यथोद्दिष्ट प्रोवाच मुनिसत्तमः । निखिलेनाङ्गराजाय यथाशास्त्रविनिश्चयः ॥ ३ ॥ आरण्यो दम्पमानश्च दान्तचैव मतङ्गजः ॥ पुराणचेति विज्ञेयाश्चत्वारोऽमी विनिश्चयात् ॥ ४ ॥ आरण्यस्तु स विज्ञेयः स्कघहारेण () संपुतः ॥ वाक्यादङ्कुशदण्डाभ्यां संज्ञां ॐयोऽतीव बुध्यते ॥ ५ ॥ मानः । संब्रहैर्विप्रयुक्तश्च बधबन्वै वारणः ॥ ६ ॥ वाक्यावङ्कुशतोत्रैश्च क्रिपां यः प्रतिपद्यते ॥ स दान्त इति मातङ्गो नकारैरुदाहृतम् ॥ ७ ॥ ‘यो नैष' इति भवेत् । },

  • .

१ क सदा स्मृतः। .