पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यशुििवरचितो- इतीभानामवतां दुःखादुःखमनुस्वयम् । { ४ उत्तदस्थाने यत्नतो विविधाकारै दानैरुपलभ्य यत्नतो पाधिरूपाणि शास्रतत्त्वविभागतः । दुष्टदोषे परिमानं यथावत्परिकीर्तितम् । हस्तिनां हितकार्येण पालकाप्येन धीमता ।। इति श्रीपालकाप्ये हस्त्पायुर्वेद उत्तराभिधाने चतुर्थस्थाने पथ्यापथ्यविचाराध्यायः षशः ॥ २६ ॥ अथ सप्तविंशोऽध्यायः । ७५Iतः करराषाध्याय व्याख्यास्यामः । इति ह स्माऽऽह भगवान्पालकाप्यः-‘अथ खलु भो यदा हस्तिनां वात पित्तकफरुधिरसंनिपातैः पीड्यन्ते । मृत्तिकानाहदोषैर्वातपित्तकफव्याधिनिग्रहार्थ मिमानि पुरीषाणि देयान्यष्टाविति । तत्र गोमहिष्यजाविगजवाजिगर्दभोष्ट्राणां करीषाणि । गव्यं करीषं गुल्मार्शकूमिकोष्ठविशोधनम् ।, वातानुलोमनं पित्तलमानाह मृज्जग्धवातगुल्मविपदुष्टभ्यः सह मूत्रेण दद्यात् । अथ माहपं करीषमुष्णवीर्य तीक्ष्णं पादरोगार्दितेभ्यो नागेभ्यः शुद्धमेव आजं करीषं तीक्ष्णमुष्णवीर्य कृमिकोष्ठविशोधनं वातानुलोमनं मृत्तिकाभिला पिपाण्डुरोगिभ्यः प्रसन्नायुक्तं दद्यात् । वाजिकरीषमुष्णवीर्य तित्तं कृॉमकोष्ठ हरं श्रेष्मविनाशनं मृत्तिकाभिलाषिपाण्डुरोगिभ्यो लवणयुक्तं दद्यात् । इभकरीषमुष्णवीयै त्वक्मलेपनार्थं दद्यात् । आविकमुष्णवीर्यं कृमिकोविशोधनं मृत्तिकाभिलषिपाण्डुरोगिभ्यो दद्यात् । औष्ट्र श्रेष्मर्हरं छविःप्रसन्नार्थं मृत्तिकाभिलाषिणे दद्यात् । गार्दभं करीषमुष्णवीर्य मृचिकाभिलाषपाण्डुरोगिभ्यो लवणयुक्तं दद्यात् । इति करीषाण्यष्टौ गुणदोषो व्याख्यातानि । तत्र गवां मूत्रमुष्णवीर्य मृत्तिकाभिलाषिभ्यो दद्यात् । माहिषं तीक्ष्णमा चोष्णवीर्य मृत्तिकाभिलाषिणे दद्यात् ।