पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ पथ्यापथ्यविचाराध्यायः ] हस्त्यायुर्वेदः । कषाये कटुतिक्तानां तथा च लघुरुक्षयोः । उपयोगादातुरः स्यादरोगोऽपि मतङ्गजूः । तस्मात्प्रकृतितत्त्वज्ञः प्रकृत्याऽनुगुणान्भिषक् । इत्या(त्य)न्नरस्या(सा)न्प्रविशेदारोग्यबलवृद्धपे । अथै यो गजः पित्तप्रकृतिस्तस्येमान्येव लिङ्गानि वेदितव्यानि-अथ खलु प्रावृडन्ते सलिलतृषितः सुरभिशिशिरेषु सलिलामृतं विसृक्षु वा वारिधरेषु घर्म बाहुल्याडुःस्थानशयनस्य जलौघसंनिरुद्धविवारमार्गत्वादैव्यायामस्यामिौ र्बल्यमुपजायते । ततः पित्तमुपचीयते । घनसंवृतदिवसकरकिरणत्वात्सुकुमारी कृते जीवनमनटे वियदिन्द्रायुधबलाहके निर्मदपरभृतशिस्विकुले मच्छन्ने नभसि तारागगदिग्वलये प्रफुछपयोत्पलकुमुदकलहारसुगन्धिजलाशये क्रौञ्चकारण्ड वचक्रवाकसारसानुगीतसरोदके प्रफुछवानीरासनसप्तपर्णबन्धुजीवे शरत्काले द्विरदः संसृष्टशुक्रसंचयो दिवा रात्रौ वा + कषायमधुराः शीता घर्मकाले क्रियाः स्मृताः । उष्णाम्ललवणाः स्त्रिग्धाः शीतकाले विनिश्चिताः ।। कटुतीक्ष्णोष्णरुक्षाश्च काले साधारणे हिताः । सर्वेष्वेव तु रोगेषु मनसः संप्रसादनम् ।। गीतवादित्रनिधेर्षेणुवीणास्वनैस्तथा । मनोन्य(ज्ञ)मधुराहारैस्तथा स्वच्छन्दचेष्टितैः । श्रेष्मणा गुरुगाम्रो हि स्तब्धत्वं मातरिश्चनः । पित्तेन परिदाहोऽयं सर्वेर्वा पीडितोऽस्म्पलम् ।। अस्मिन्द्रव्येऽभिलाषं मे दुःखत्यङ्गमिदं मम । तृषितो ह्यवितृप्तोऽस्मि क्षुधितोऽस्मीति वा पुनः । वदतां हि क्रियाः सर्वाः मुखदुःखनिबन्धनाः । आयुर्वेदधरैर्दक्षरेकैकाङ्गव्यवस्थितैः ॥ नराणां त्वततो व्याधिरुपलभ्पेत वृा न वा । वधबन्धपरिशं प्राप्नुवन्त्यतिदारुणम् । पानभोजनमप्येषां बलादेव भदीयते । देहि भूयो ममाऽऽलम्ब “ श्वायं समोऽधिक । । । + त्रुटिचिह्नमादर्शत्रयेऽपि नोपलभ्यते । १ क. विद्युदिन्द्रा ।