पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ पथ्यापथ्यविचाराध्यायः ] हंस्यायुर्वेदः । तत्राध्वन्या महास्थूला मृदुमांसा महोदराः । बहुवातकफाथैव अल्पपित्ताश्च वारणाः ॥ १५ ॥ हस्वखण्ड(तृणप्रायो अल्पतृणनगत्रुमः ।। पर्याकाशसमश्चैव स देशो जाङ्गलो मतः ॥ १६॥ तत्र छेशसद्दाः शूराः कठिनाङ्गाः रिश्रेक्षणाः । हस्वखण्ड)विषाणाश्च वारणा मनुजाधिप ॥ १७ ॥ वातपित्तप्रकोपाश्च भवन्त्यल्पकफा गजाः ॥ एवमालोक्य देशं तु ततः कुर्यत्क्रियापथम्.॥ गजानामौषधं नित्यं पथादेशविभागतः ॥ १८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने चतुर्थस्थाने त्रिविधिनामाऽध्यायः पञ्चविंश ॥ २५ ॥ अथ षहुिंशोऽध्यायः । अथ रोमपादोऽङ्गराजो भगवन्तं पालकाप्यमभिवाद्याभिगम्य पप्रच्छ ‘भग वन्दम्यमानानां नागानां स्थानमुपपन्नानामतिकर्मणि चातिपयुक्तानां क्रमेण वष्र्मसु प्रविचितं विधाय पवसाद्युपयुञ्जानाः पुष्टिमुपगच्छन्ति । केचिद्व्पा धिभिरभिभूताः । तत्र को हेतुर्यथा वने बलिनोऽरोगास्तु भवन्ति । तथा मे भगवन्व्याख्यातुमर्हसि’ इति । तच्छूत्वा भगवान्पालकाप्योऽब्रवीत्-अङ्गराज तत्र सर्वेषां हस्तिनां शारी समात्रयो दोषा वातपित्तश्लेष्माणो भवन्ति । तेषां च प्रशमननिमित्तं षड्रसा भवन्ति । भक्ष्यभोज्यलेह्यपेयचतुर्विधाव्यवहार्यविषमप्रकृतेः केचिदुर्वर्णाश्च भवन्ति । केचिद्भन्धव्याधित्वमापन्ना भवन्ति । तेषां यथाप्रकृतिसत्त्वबलोत्साहवयोग्रहा ण्यवेक्ष्य रसानां पथ्यापथ्यप्रमाणं व्याख्यास्यामः । इह स्खलु भो नागानां वयोपविशेषा भवन्ति वातपित्तश्लेष्मभ्यः समस्तृव्यस्तेभ्यः। तत्रास्य निमित्त मुपदिश्यते सा तस्प प्रकृतिस्तदूपविशेषः । समास्तु तेषां प्रकृतयो भवन्ति तत्संप्रयोगेना(न)रुपसत्त्वबलादयः । अथ यस्य नागस्य समास्रयो दोषा भवन्ति । मध्यमं”यपकृतिमान्सुमत्वप्रयोगमेवाभिरामं सबलादिपूत्तमत्वं

धनुश्चिह्नान्तरगतः पाठो नास्ति कपुस्तके १ क. १मध्यप्र" ।