पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ पारंवारकोहतुज्ञानाध्यायः ] हंस्यायुर्वेदः । ६४१ सम्यक्स्विन्नविपर्यासे दुःस्विन्नमिति निर्दिशेत् ॥ अतिरिक्तविरिते च दुर्विरिक्रे च वारणः ॥ १७ ॥ लक्षणं वक्ष्यते राजंस्तन्निबोध यथातथम् ॥ वातमूत्रे प्रचलतः करीषं चातिवर्तते ॥ १८ ॥ दोषाः सह करीषेण प्रच्यवन्ते नराधिप ।। पश्चाच्छछ्लेष्मैव शुद्धस्तु अतिरिक्तस्य लक्षणम् ॥ १९ ॥ शूलं पार्श्व सहृदये स्थाने न लभते सुखम् ॥ . दृश्यतेऽत्र करीषस्य चन्द्रकाण्यसृजोक्षितम् ॥ २० ॥ दुर्बलो दुर्मनाः क्षामः परिशुष्कमुखो भृशम् ॥ अतियोगे विरितं तु विद्यादेभिः सुलक्षणैः ॥ २१ ॥ अल्पदोषस्य महती मात्रा यस्य प्रदीयते । सा तस्य दोषं निर्हत्य परिताप्य यथाशयम् ॥ २२ ॥ अथवा जीवमादत्ते वारणस्य महीपते ॥ इत्येतछुक्षणं विद्यादतिरिक्तस्य लक्षणम् ॥ २३ ॥ दुर्विरिते गजे सिद्धिं प्रवक्ष्यामि महीपते । शीतमस्मै तु कवलं दद्यान्नागाय योगवित् ॥ २४ ॥ सुखोदकेन पानार्थे परिषेकं च दापयेत् ।। भोजनादिविधिं कुर्यादानाहेषु यथास्मृतम् ॥ २५ ॥ अस्निग्धस्य तु नागस्य चिकित्सां शृणु पार्थिव ।। स्त्रेहपाने यथा प्रोक्तो विधिः स्रहं समाचरेत् ॥ २६ ॥ अस्विन्नस्य तु नागस्य चिकित्सा तत्मवक्ष्यते ॥ यदुक्तं पित्तमूछायां तत्पूर्वं संपदी(दा)पयेत् ॥ २७ ॥ अस्वित्रे च यथायोगं पुनः स्वेदं समाचरेत् ॥ सम्यग्धीनातिरिक्तानां निरुहाणां महीपते ॥ बस्तिसिद्धौ विधिः कृत्स्रो निखिलेषु प्रकीर्तितः ॥ २८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने'चतुर्थस्थाने परिचारकः हेतुज्ञानं नाम चतुर्विशैोऽध्यायः ॥ २४ ॥ १ क, सांप्रतम् । २ क. “दीयते ॥ २७ ॥