पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो - [ ४ उत्तरस्थाने कथं स्रिग्धं विजानीपालिग्धं वा मतङ्गजम् ॥ अतिरिधं कथं विषादितं हि तु मे विभो ॥ २ ॥ यदा तु नागः स्रिवत अरोगो यदि वाऽऽसुरः ॥ स्वैदनैर्विविधैः स्रिग्धर्मिषग्भिः शान्ननिश्चितैः ॥ ३ ॥ सुनिःस्विन्नस्य नागस्य लक्षणं वत्कुमर्हति । कथं विरिकं जानीयाहुर्विरितं च वारणम् ॥ ४ ॥ एतद्वेदितुमिच्छामि भगवन्संशयो हि मे ॥ ५ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।। यदा भित्रपुरीषः स्यादनुलोमश्च मारुतः ॥ ६ ॥ सत्रेहं च पुरीषं स्यात्तदा स्रिग्धं प्रचक्षते । पुरीषमल्पं कठिनं भुक्तं चास्य भजीर्यते ॥ ७ ॥ अस्रिग्धमेवं जानीयादथ दृष्टेन मानते । यस्य गात्राणि सीदन्ति शकृद्भिनं च मुञ्चति ॥ ८ ॥ संलिप्तहृदयचैव यवसं नाभिनन्दति ॥ परिशुष्कमुखो दीनः पानीये कुरुते मतिम् ॥ ९ ॥ इत्येतैर्लक्षणैर्विद्यादतिस्रिग्धं मतङ्गजम् । । मृदुगात्रो यदा नागः सविवर्णच्छविर्भवेत् ॥ १० ॥ स्विद्यमानस्त्वगातापी (?) स्वच्छगात्रश्च जायते । लक्षणैरेवमेतैस्तु स्विद्यमानमनेकपम् ॥ ११ ॥ सुस्विन्नमिति जानीयाद्दीप्ताभिमनुपद्रवम् ।। यदा तु स्विद्यमानस्य स्विक्षस्य तु पथाबलम् ॥ १२ ॥ अतिस्वेदं प्रयुञ्जीत अज्ञानादरुपमेधसः ॥ अतिस्विअस्य नागस्य अक्ष्णोरश्रु प्रवर्तते ॥ १३ ॥ वेपस्तृषा च दाहश्च मूर्छ चास्येोपजायते । परिशुष्कमुखो दीनी'न शय्यामभिनन्दति ॥ १४ ॥ गात्रेण गात्रं * संधृष्टय ?) न च तिष्ठति वारणः । पांशुप्रमाथं सलिलमवगाहं च काङ्कक्षति ॥ १५ ॥ . अतिस्विन्मस्य नागस्य लक्षणं समुदाहसम् । स्विन्नस्य तु यथाव्याधिः प्रशान्तिमुपगच्छति ॥ १६ ॥

  • ‘संमृष्य' इति भवेतू ।