पृष्ठम्:हस्त्यायुर्वेदः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७३ संयुतेन पूरयेत् । उपचरति मासार्धधया(?) येष्वपि पूरणं दद्यात् । तृतीये चाहनि यथोक्तेन प्रक्षालनेन प्रक्षाल्य व्रणु घृतेन परिषेचयेत् । अनेनैव विधिना ब्रणमुपाचरेदाछेदात् । ततः शोधनादिकल्कैरुपक्रमेत्, घृतपानं च दद्यात् । घृतसंयुक्त शाल्योदनं मुद्रयूषेण संसृष्टं दद्यात् । अथ सिंहव्याघ्रनखदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषा येण विमलशिशिरसलिलेन परिषेचयेत् । शीतैस्तु पदेहैतसंयुतैश्च प्रदेहयेत् । व्रणांश्च ऋणोपक्रमैरुपक्रमेत् । अमिदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयःसुराभ्योऽन्यतरेण वा शीतैश्च प्रदेहैः, मञ्जिष्ठायष्टीमधुकचन्दनोशीरपद्मकनलवक्षुलशालिमूलसारिवा र्जुनोदुम्बरपुझैः, वटनालिकाजलजबिशमृणालोत्पलपद्मिनीकर्दमभद्रमुस्तातृण शूल्यैश्च सुरादधिघृतयुतैः प्रदेहं कुर्यात् । कषायोदकपिष्टैः परिषेकांश्च कुर्यात् । व्यपगताग्रिमभिज्ञाय विमलशिशिरसलिलेऽवगाह्वयत् । निवृत्तमवगौहाद्वृतेन परिषेचयेत् । व्रणं च पूर्वोक्तैरुपक्रमैरुपक्रमेत् । गुडजतुमधूच्छिष्टामेध्यदग्ध ( 'uनलदग्धसमानक्रियं तस्योपक्रमं कुर्यात् ।) घृतेनाभ्यज्य शीतैः प्रदेहैरुप क्रमेत् ।। अर्कविद्युत्संतापदग्धस्य ” समानमुपक्रमं कुर्यात् । संतापदग्धं तु विशेषेणाऽऽहारैः सात्म्यकालाविरुद्वैरुपाचरेत् । धृतयुक्तं च शालीनामोदनं मुद्रयूषरसयुक्तं दद्यात् । क्षारदग्धं च द्विब्रणीयेन क्षारकर्मण्युपदिष्टनोपक्रमेत । घृष्टमधुघृतेनाभ्यज्य शीतैः प्रदेहैरुपक्रमेत ॥ विषदग्धं च शस्रकर्मादिभिरुपक्रमेत् । दग्धं चाऽऽशीविषनिःश्वासैः शत धौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टः प्रदेहैरुपक्रमेत् । घृतपानं च दद्यात्, शीत परिषेकं च कुर्यात् । भोजनं विषजग्धोद्दिष्टं दद्यात् । तत्र श्रेष्ठोक क्षतं दग्धं च यो नागे(गं) विधिना समुपाचरेत् । पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यरोगस्थाने सद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः ॥ २ ॥

  • खपुस्तके चुटितः ।

१ क. "दिभिः क० । २ क. ०गाहये"। ३ क. *दग्धं ।