पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घृतमण्डेन नागस्पच्छिद्रप्रक्षालनं हितम् ॥ धेनुका प्रसङ्गेन मूत्रं यस्य सवेदनम् ॥ ७७ ॥ रतं च सहसा यस्पे मेहूंदच्छं प्रवर्तते ॥ मूत्रच्छअमेहेषु वातगुरुजे तथैव च ॥ ७८ ॥ दद्यात्तस्योत्तरं बस्तिघृतेनैव विकित्सकः ॥ अष्टादशाङ्गलं चास्य नेत्रं ताम्रायसं भवेत् ॥ ७९ ॥ कोरण्ठपुष्पवृन्ताग्रं प्रवेशे चतुरङ्गलम् ॥ स्नेहेष्वेतेषु सर्वेषु दधि क्षौद्रं पयस्तथा ॥ ८० ॥ विमृश्य कुशलो वैद्यो भेषजानि प्रदापयेत् ॥ सर्वसेके तु सामथ्र्य निबोध मनुजाधिप ॥ ८१ ॥ प्रसादयति रोमाणि शीतं चैव न कधते । वधवन्धसमुत्थाना ये ऋणास्तस्य हस्तिनः ॥ ८२ ॥ आगन्तो वा दृश्यन्ते शारीरस्था महीपते ॥ ते मृदुत्वं प्रपद्यन्ते श्वयथुश्चास्य शाम्यति ॥ ८३ ॥ हन्युस्ते च कवांस्तस्य सर्वसेकेन दन्तिनः ॥ हेमन्ते सर्वसेकस्तु भवेद्वैरिकसंयुतः ॥ ८४ ॥ तदाऽस्य द्विगुणं योगं तिलतैलेन कारपेत् ॥ खरत्वं गात्ररोगस्तु सर्वेसेकेन शाम्यति ॥ ८५ ॥ मृदुत्वं जायते चास्य शिरान्नाय्वस्थिभर्मणाम् ॥ ततः किण्वगुदं माषावणं गैरिकं तथा ॥ ८६ ।। अतसीचूर्णभागं च संभृतं स्थापपेत्र्यहम्॥ प्रत्युद्वतं स्थानगतं पूर्वा सेवपेद्वजम् ॥ ८७॥ तेन सेकस्त्रिरात्रं स्पात्ततस् परिकर्षयेत् ॥ फाल्गुने सिद्धतैलेन वैधे पं समुद्धरेत् ॥ एतेन क्रमयोगेण्य छविनगस्य जायते ॥८९ ॥ शीतमुष्णं व सहते मृदुगात्रश्च जायते ॥ गात्रसेके च सामथ्र्य निषोध मनुजाधिप ॥ ९० ॥