पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ किमर्थक्यध्यायः] हँस्यायुर्वेदः । मुखशोषः श्रमस्तृष्णा मूछ वाऽस्योपशाम्यति ॥ प्रसमतनुरोमाणि बृहत्कायश्च, जापते ॥ ६१ । । क्षीणशोणितमांसेभ्यो मत्तेभ्यश्च विशेषतः ।। " कर्मभिः पीडितेभ्यश्च मेदकान्दापयेद्रिष् ॥ ६ ॥ प्रस्वित्रं चैव कुल्माषं धृतं किण्वं गुडं तथा । भोजयेत्सर्वमालोड्य वारणं मदवृद्धये ॥ ६३ ।। गोधूमानथ मुस्विन्नान्धृतं किण्वं तथैव च ॥ . भोजयेछवणीकृत्य द्वितीयो मेदकः स्मृतः ॥ ६४ ॥ प्रसृष्टवच मधुराः सगोधूमा यवाः स्मृताः ॥ विपकमधुराश्चैव वातपित्तनिबर्हणाः ।। ६५ ।। कषायतिक्ताश्च रसा गुरवश्व प्रकीर्तिताः ॥ गोधूमाः स्रिग्धमधुरा वातन्नास्तु यवैः सह ॥ ६६॥ यवास्तु पथ्या विज्ञेया नातिशुक्रबलप्रदाः । यस्माद्धदलं वर्धयते मांसं मेदोस्थिशोणितं ॥ ६७ ॥ तस्मान्मेदक इत्युक्तो भोजने च-ते विधि ॥ यश्च कर्ममवृद्धस्तु मदक्षीणश्च वारणः ।। ६८ ॥ धेनुकासु च यः क्षीणो यः कृशो दुर्बलश्च यः । स्वस्थवृत्ते च नागस्य भोजनं पूज्यते सदा ॥ ६९ ॥ ॐआहारो धारयेत्प्राणान्प्रीणयेदिन्द्रियाणि च ॥ तस्मात्स्नेहसमायुक्तं युक्त्या च लवणीकृतम् ॥ ७० ॥ भोजनं भोजयेन्नागं रसयुक्तिसमन्वितम् । • मुगन्धिरम्लः स्निग्धश्च सद्यः प्राणविवर्धनः ॥ ७१ ॥ वाराहः कुटो वाऽपि ऐणेयो वा रसेो हितः ॥ भक्तस्तैलार्धयुक्तेन कृमिकोष्ठी न जायते ॥ ७२ ॥ हृदयं न च लिप्येत मृत्तिकां च न स्वादति ॥ शिरोगाक्षिरोगेषु हस्तकर्णग्रहे भ्रये ॥ ७३ ॥ युक्त्या स्नेहानुपानं च दद्याद्भक्तवतः सदा । ग्रीवायामां(मं)सयोश्चाऽपि शिरसः स्रोतसोरपि ॥ ७४ ॥ •भवेदुत्तरपानेन बलवानिन्द्रियेषु च ॥ गात्रापरविकारेषु धेनुका च निःश्रु(घु)तः ।। ७५ ॥ १ कै, ०पाके म° । २ क. ने चोच्यते वि० ।