पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ किमर्थक्यध्यायः ] इस्ख्यायुर्वेदः । ६७५ स्वच्छवृत्तस्य नागस्य प्रतिपानं सदा हितम् । तेभ्यो देया सुरा नित्यं संस्कृताऽसंस्कृता भवेत् ॥ ३३ ॥ तथा वातानुलोम्यं च दीप्तामिश्रोपजायते ॥ श्रमश्च व्यपगच्छेत्तं मनस्वी चोपजायते ॥ ३४ ॥ उणवीप च तीक्ष्णा च विपाकेऽम्ला स्वभावतः ॥ कथयन्ति मुरावास्तां केचित्पश्वरसान्विताम् ॥ ३५ ॥ तस्मान्नित्यं सुरा देया वारणेभ्यश्चिकित्सकैः । येषां लेष्मा च पित्तं च मारुतश्चापि कुप्यति ॥ ३६ ॥ पूर्वोक्तेन प्रमाणेन दधि तेभ्यः प्रदापयेत् ।। अम्लं चैवाम्लपाकं च विपाके गुरु वोच्यते ॥ ३७ ॥ कफयोनेस्तथा छेदे पित्तयोनेस्तथैव च । छद्यौति(?)वातिसारेषु विषदुष्ठेषु हस्तिषु ॥ ३८ ॥ कफमांसमवृद्धेषु दापयेत्संततं मधु ॥ ( कर्शनं शीतवीर्य च रूक्षं गुरु लघु स्मृतम् ॥ ३९ ॥ शोधनं लेखनं चैव कफपित्तहरं मधु ।) सर्वेषधिसमायुक्त कषायं शीतलं तथा ॥ ४० ॥ श्लक्ष्णं मुगन्धि स्रिग्धं च सद्यः प्राणविवर्धनम् । •मधुरं जीवनं चैव वृष्यं बलकरं तथा ॥ ४१ ॥ विपाककटुकं चैव संधानं कृमिनाशनम् ॥ अचिन्त्यवीर्य गुणतः सर्वरोगमणाशनम् ॥ ४२ ॥ प्रशस्तमृषिभिर्नित्यं गुणैरेतैर्युतं मधु । लवणं शोधयेत्कायं मारुतं चानुलोमयेत् ॥ ५३ ॥ दीप्तान्निश्च भवेभागः सुमनाश्चैव जायते । वातमूत्रपुरीषं च यथाकालं प्रमुञ्चति ॥ ४४ ॥ आमं विपच्यते वाऽस्य च्छविश्वास्य प्रसादयेत् । हृद्रोगो न भवेत्तस्य मृत्तिकां च न स्वादति ॥ ४९ ॥ आध्माति न च मातङ्गी घनं लिण्डं च मुञ्चति ।। अतिदानेऽपि राजेन्द्र रक्तपित्तं प्रकुप्यति ॥ ४६ ॥

  • इतः पूर्वम्—‘सम्यग्वातं च जयति व्छविश्वास्य प्रसीदति ॥ जीवनं बृहणं

दृश्यम्’ इत्यधिकं कैपुस्तके । । धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।