पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ किमर्थक्यध्यायः ] हस्त्यायुर्वेदः । ६७३ किमर्थं सर्वेसेकश्च शिरोभ्यङ्गस्तथैव च ॥ गैरिकेण समायुक्तः ससेकश्चापि कं पुनः ॥ ४ ॥ गात्रसेकः किमर्थं च किमर्थं तैलशोधनम् ॥ तथा तैलकषाये वा किमर्थं दीगते पुनः ॥ ५ ॥ दीपतैलं किमर्थ वा किमर्थ रसभोजनम् ॥ एतन्मे सर्वमाचक्ष्व यथावदनुपूर्वशः ॥ ६ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ शृणु सर्वे महाराज यदर्थं दीयते घृतम् ॥ ७ ॥

  1. स्तैज्य(१)गात्रपर ये च (पे च पर्यश्रुलोचनाः ॥

क्षीणशोणितमांसाश्च स्तब्धाङ्गाश्चापि ये गजाः ॥ ८ ॥ कर्मभिर्विहता ये च ) भारैर्गुरुभिरदैिताः ।। मदक्षीणाश्च ये नागा वृद्धा रुक्षास्तथैव च ॥ ९ ॥ ये कृशाश्वावसन्नाश्च लुप्ताङ्गाश्च विशेषतः ॥ युद्धाध्वगमने कृिष्टा ये च नागा महीपते ॥ १७ ॥ व्याधिभिः प्रतिपन्नाश्च नागा ये चापि दुर्बलाः । घृतं तेभ्यः प्रदातव्यं व्याधिता ये च पित्तलाः ॥ ११ ॥ घृतं हि मधुरं शीतं मेदःश्लेष्मविवर्धनम् ॥ ऋष्टमूत्रपुरीषं च बृहणं बलवर्धनम् ॥ १२ ॥ ये च वातप्रकोपेन(ग) श्रेष्मणा च मताङ्गजाः । उपस्रष्टा महाराज तेभ्यस्तैलं भदापयेत् ॥ १३ ॥ उष्णाभितापि कटुकं त्वच्यं बलविवर्धनम् । पित्तलं च तथा तैलं कफानिलनिबर्हणम् ॥ १४ ॥ यस्तु कर्माभिनीतस्य धेनुकासु च निःश्रुतः । मदक्षीणस्तथा स्रद्यो(?) वयसा चापि विच्युत ।। १५ ।। तस्मै मज्जा प्रदातव्या महाराज.वसाऽपि च ॥ पृथक्प्राह स पोगैश्च ततः संपद्यते सुखम् ॥ १६ ॥ मधुरश्चोष्णवीर्यश्च विपाके कटुकः स्मृतः । सैवैरेतैर्गुणैर्युक्तो ज्ञेयो मज्जा वसाऽपि च ॥ १७ ॥

  • ‘स्तब्धः' इति भवेत् । । धनुश्चिान्तरगतः पाठो नास्ति कपुस्तके ।

८५ १ क. स्रज्यात्र० । २ क. "राऽग्रे च ।