पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्य - [ ४ उत्तरस्थाने अतोऽन्यथा प्रकुर्वाणाः सराष्ट्रबलवाहनाः । राजानोऽपि विनश्यन्ति देवतातिक्रमेण वै ॥ ३७ ।। प्रयुञ्जते च ये तस्मै सम्यक्पूजां नराधिप ।। सपुत्रदारां वर्धन्ते सराष्ट्रबलवाहनाः ॥ ३८ ।। संग्रामे सममप्यन्ते ते भवन्ति विदारणाः ॥ ३९ ॥ काले बीजानि रोहन्ति सम्यग्वर्षति वासवः ।। न भवत्यत्र मरको व्याधिहानिस्तथैव च ॥ ४० ॥ निरामयं च भुञ्जीत राज्ञा कृत्स्रा वरुंधरा । रत्नाकरवती देवी सशैलवनकानना ॥ ४१ ॥ अरोगा बलवन्तश्च जयन्त्येते मतङ्गजाः । गजोपजीविनः सर्वे कामभोगैः समन्विताः ॥ ४२ ॥ पुत्रैश्च पशुभिचैव जीवन्ति च शतं समाः ॥ अरोगा बलवन्तश्च जायन्ते वै प्रजा भृशम् ॥ ४३ ॥ पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥ यांश्च प्रार्थयते कामान्सर्वास्तान्प्रामुपान्नरः ॥ ॥ ४४ एवं वृत्तं महाराज शंभोर्भक्तयाऽन्वितं विभो ॥ श्रीगजस्य प्रतिकृतं त्रिषु लोकेषु पूजितम् ॥ ४५ ॥ मपाऽऽख्याता महाबाहो विस्तरेण यथाक्रमम् ।। इति श्रीपालकाप्पे हस्त्यायुर्वेद उत्तराभिधाने परिवारवनुर्थस्थाने द्वाविंशः श्रीगजसंभवाध्या पः ॥ २२ ॥ अथ त्रयोविंशोऽध्यापः । ॐअङ्गो हि राजा चम्पामां पालकाप्यं स्मं पृच्छति ॥ सर्व द्रव्यगतं प्रश्नं क्रमेण मुनिसत्तमः(म्) ॥ १ ॥ सर्पितैलं वसा मजा क्षीरं मूत्रं तथा दधि ॥ किमर्थ दीयते विध क्षौद्रं किमिति दीयते ॥ २ ॥ लवणोदकतैलं वा मेदकं वा सुसंस्कृतम् । किमर्थं भोजनं वाऽपि किमर्थं वाऽनुवास्यते ॥ ३ ॥