पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२१श्रीगजसंभवाध्यायः] हंस्यायुर्वेदः । पीतोदकाय च पयो न देयं स्यात्कदाचम ।। न चातिन्नेहपीताय मद्यपीत्य चैव हि ॥ १५ ॥ श्लेष्मरोगाभिभूताय गजायाजीर्णकाय च ॥ तद्धि कुष्ठकिलासानां दद्युः सपिटकोद्रमाः ॥ १६ ॥ एवंविधानि जनयेत्कण्डूः पालिस्यमेव च ॥ पयः कुभाजनगतं यचाम्लरसदूषितम् ॥ १७ ॥ शरद्धेमन्तवर्षासु शिशिरे चैव चारणः । पयः पुtानसा” “अध्वकर्मसु योजपेत् ॥ भवन्ति सं(मु)हितगदा निरातङ्काश्च वारणाः ॥ १८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने क्षीरदानविधिरध्याय एकविंशः ॥ २१ ॥ अथ द्वाविंशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । कृतजापमृषिश्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥ पृष्टं मे निखिलं किंचिद्याकरोतु महातपाः ॥ ग्रीष्मस्य चान्तिमे पक्षे वर्षाणामागमे तथा ॥ २ ॥ दिवसे वाऽपि संपूर्णे आषाढे द्विजसत्तम । ऐरावतसमो यस्तु संभूतः स कथं मुने ॥ ३ ॥ देवता का भवेत्तस्य सुतो वा कस्य सत्तमः । केन वा कारणेनैव मत्र्यलोके महामुने ॥ ४ ॥ वर्षासु सततं वाऽपि पूज्यते च नराधिपैः ॥ एवमुक्तो मुनिश्रेष्ठः प्रोवाचेह जनाधिपम् ॥ ५ ॥ शुमां राजन्कथां दिव्यां पुण्यां प्रव्याहतां मया । श्रोतुमर्हसि भद्रं ते यथावदिति निश्चितम् ॥ ६ ॥ पुरा कृतयुगे राजन्देवानां दानवैः सह ॥ संग्रामे दारुणे राजन्निवृते तारकामये ॥ ७ ॥ भहृष्टमनसः सर्वे देवा ऋज्रभृदादयः । दिग्वारणान्पूजयित्वा तत्तत्कामान्महाबलान् ! ८ ।। १ क. ०ण्डूः'खालि° । २ क. *ष्टान्द्रसीकुर्यादुष्णक° । ३ क. ध. समुहृत" ६९