पृष्ठम्:हस्त्यायुर्वेदः.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मर्मगते यथोक्तानां मर्मणां लिङ्गनि भवन्ति । प्राणवियोगश्चात्पर्थद यदा तु गोपुराट्टालकाद्यभिभर्वतो वारणस्योल्काज्वालावलीढं भवति शरी रम्, तदा रोमत्वंग्ज्वलनं भवति । अङ्गारामेध्यगुडमधूच्छिष्टस्य जतुभिरव लीडगात्रस्य भूयो भूयः श्यावता भवति । तत्र द्विविधमेव परंपरादाहमि च्छन्ति-द्रवेण वा स्थिरेण वा । तयोस्तु लिङ्गसामान्य भिहतदेहानां विद्युद्विस्फोटनाद्वैरवं स्वरमभिशृण्वतां हृदयमवदीर्यते द्विरदानां केषांचित् । घोरघोषत्वात्केचिद्धाधिर्यमेवाऽऽप्नुवन्ति । केचित्वाभिहतदेहा गतासवो भवन्ति । अत्यर्थाध्वगमनाद्दिवसकरकराभिहतदेहस्य संतापाद्वोभ्यो रुधिरागमः, पिपा सात्वक्संकोचोरुस्तम्भाः, श्र(स्र)स्तकरचरणकर्णवालमेहनत्वं च भवति । स दिवसकरकरदग्धतनुर्यदा ग्रहणमुपगतो भवति द्विरदपतिः, ततोऽस्य मन स्तापः, यवसकवलकुवलानामुपयुक्तानां स विवाहमुपजनयति । स विदग्धो धातुत्वङमांसधमनीसिरास्नायूनां भूयो भूयो विदाहमभिनिवर्तयति । तस्य संतापदग्धोत्पन्नास्तीक्ष्णवेदनाः शरीरे कृष्णपर्यन्ताः सिताः स्फोटः शोषरुग्दा हमाया भवन्ति । इत्येतत्संतापदग्धस्य लक्षणम् । अभ्यसादाशीर्वि(वि)षाणां निःश्वासघ्राणनयनैः संपूर्छितकोपानां संनिपाता द्विरदपतिगात्रेषु रक्तमण्डलानि प्रादुर्भवन्ति।प्रियङ्गतण्डुलवणैः स्फोटैरुपचयोऽ प्रतिकारोदस्य मांससादः पिपासा वेपथुर्वमथुरभीक्ष्णं संभवति । इत्येतदाशी विं(वि)पद्धलक्षणं भवति । इति सद्यःक्षतदग्धमशेषेणोक्तमस्माभिः । व्रणस्तु सर्व एव किंचित्कालमागन्तुर्भूत्वा दोषाणामन्यतमसंसर्गमुपगम्य सदोषो भवति । तस्याऽऽकृतिविशेषादूव्रणकरणवशेषाणामन्यतमेनाऽऽहतस्य तांचकित्सितमुपदेक्ष्यामः अथ सद्यःक्षतं मधुघृताभ्यक्तं कृत्वा विमलशिशिरसलिलं द्विरदमवगाहपे त्रिरात्रम् । एवं क्रमेणानुबशीयात् । ततः छिन्नोत्थितव्रणमपि विज्ञेयपूतिमां सावनद्धमुत्सङ्गयुक्तं गत्या वा ततः शत्रेण पूतिमांसं विशोध्यैषण्याऽन्वेषणमसंमूढः , कृत्वा, यत्रैषण्या गतिर्नावरुध्यते ततो व्रणं निरुत्सङ्गं सलिलानवस्थायिनं कुयात् । सलिलं हि रक्तमूर्छितं वायुनोच्छूितत्वं पूयत्वं च व्रजति । पूयः स दोषमूर्छितो गतिमापादयांत । तं घृतेनावसिच्य गजशाकृतेन किण्वलवण १ क. *त्वक्चल० । २ क. “र्यमुपलभन्ते । के° । ३ क. "टाश्चोषशोष° । ४ क. "भ्यासत्रैर्दाशी० । ९ क. "रास्पद । ६ क. ०कित्सामु । ७ क "खेणा त्यमां ।