पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषिरचितो [४ , उत्तरस्थाने-- अथ विनपादवनतशिरसमभिसमीक्ष्योवाच पालकाप्यो महामुनिः-शृणु राजन्गुग्गुलुद्रव्यमनेकगुणसंपन्नममृतेोपमं रसायनभूसमित्येषां चिकित्सार्थ मुत्पादितं भगवता पशुपतिना । तस्योपयोगमुपदेक्ष्यामः । स्तम्भादौ वातिकेषु विकारेषु तथाँ बालपाकलप्रसुप्तमृदुग्रहकुकुटमहापाकोत्कर्णवातानाहविषमे हशिरोगत्दृदयशूलगात्रस्तम्भस्कन्दमूर्छपाण्डुरोगहस्तग्रहवातगतिगुरुमाभि षन्न(ण्ण)मृज्वग्धानाहमेहोदरशोषिणां कूमिकोष्ठिक्षीरवसाभ छब्यापदादीनां वात कफादीनां विकाराणामन्येषां च प्रशस्तम् । तत्र प्रशस्तदेशजातम नुपहतवीर्यमचिरस्थितमथुष्कमनिर्दग्धमनन्यद्रव्यसंयुक्तमृत्तिकाङ्गारवर्जितमभि संवीक्ष्याञ्जनरुचकभृङ्गराजप्रतीकाशं महिषाक्षं चोपकल्प्य पलद्वपात्प्रभृति विंशतिपलिकमराशिं कृत्वा ततस्तं महति कटाहे दृढे कुम्भेष्वा(वा) सूयते गोमू ऋत्रिफलाप्रसन्नामैरेयाणामन्यतमेन द्रव्येण यदि तद्दिवाकरकिरणसंतप्त संजा तफेनबुद्बुदं भवति, तदा बलवद्भिः पुंभिः कन्यकाभिर्वा दृषदि पेषयित्वाऽञ्जन मिव श्लक्ष्णं ततः सुमनसमभिसमीक्ष्य वारणं प्राक्सूर्योदयाद्वेणुभिः सुपरिगृ हीतमारोग्यार्थे तु पूर्वोकैरेव द्रव्यैपथायोगमवलोड्य पाययेच्छारीरमानसदुः स्वकोपशोकभयदर्पहँषैर्विमुक्तं युक्तया विरिक्तं बुभुक्षितं सृस्थितसर्वाङ्गं गजम् । अथवा द्विपञ्वपूलत्रिफलाकाथपिष्टं पुनः प्रकाथ्य शीतीभूतं जीर्णाहाराय दद्यात् । क्षीरं प्रतिपानाय दद्यात् । स्वापयेदेकपक्षतः । यवसकवलकुवलजा(या)नां प्रतिषेधः । अथ प्रथमायां मध्याह्नवेलायां यश्नुर्गुणं संयुतेन्दुनीलफल हरितेन यवसेन कण्ठशोधनार्थं प्रतिच्छाद्य गोजाविमहिषीणां पयः शृतमर्धभा गावशिष्टयवतार्य शर्कराचूर्णसंसृष्टं पापयेत् । तेनास्य जीर्णेषधस्य ‘कोष्ठ दाहशान्तिर्भवति । ततो जीर्णौषधं वारणमभिज्ञाय पुनः प्रच्छाद्य कवलैः स्वच्छन्दमुखमचारं चैनं नदीनदसरःपर्यन्तेषपूदकपूर्णेष्ववगाहयेत् । विधानार्थ पुराणषष्टिकानामोदनं मुद्रयूषेण घृतस्निग्धेन सायमेककालं भोजयेत् । शय्या भागोऽस्य स्वरोष्ट्राणामेकतमेन पुरीषेणाऽ5तपशुष्केण स्वकरीषेण वा शय्या विधिांवधानमसंबाधं कुर्यात् । एष एव विधिः कार्य आ समाशेर्यथाविधि । अन्यथा क्रियते मोहात्ततो व्यापतिमर्हसि ॥ १ ॥ दीनो म्लानमुस्वस्तस्य वेपथुः श्वयथुः कृमः ।। कदाचिदुष्णं भजते कदाचिच्छीतमेव च ॥ २ ॥