पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कात्स्येन विधिरुकोऽयं यथावद्राजसत्तम ॥ २४ ॥ अतः परं मंवक्ष्यामि विधिं विस्तरतोऽपरम् ।। विद्धि प्रकारपोगा हि प्रतिपानस्य निश्चितम् ॥ २५ ॥ सुरा च मधुरा.पूर्वा क्षेष्मन्ना पिक्वधिनी ॥ तीक्ष्णत्वाज्जरयत्ययं दीपनीयतमा स्मृता ॥ २३ ॥ वातशूलेषु भूयिष्ठं तस्य दोषाः प्रशस्यते ॥ अतस्तीक्ष्णतरां प्राहुः प्रसन्नां मनुजाधिप ॥ २७ ॥ उष्णवीप तनुरसां तथा वह्निप्रदीपनाम् ॥ वातश्लेष्महेरां चैव तथा वंििववर्धनीम् ॥ २८ ॥ बलं विज्ञाय नागेभ्पस्तदैनां संप्रदापयेत् ॥ भोजितानां च नागानामनुपानेषु पूजिते ॥ २९ ॥ अत्याशितं जरपति कण्ठमार्गविशोधनी ॥ सौमनस्यकरी हृद्या मनोवर्णप्रसादनी ॥ ३० ॥ वातलेष्वपि सुतरां मन्दाग्रौ च प्रशस्यते ॥ मन्दोद्धृता या सुतरां तरुणी वाप्यतिस्थिरा ॥ ३१ ॥ अव्यक्तरसवीर्यत्वान्न सा कर्मसु पूजिता ॥ वातपित्तप्रकोपी तु सीधुरुक्तो मनीषिभिः ॥ ३२ ॥ कक्षश्च सकषायश्च विपाके कटुकस्तथा । रूक्षत्वात्कटुतित्कश्च श्लेष्माणमपकर्षति ॥ ३३ ॥ तथा क्षकषायत्वाद्रक्तपित्तहितोऽमरः ।। एष पक्करसः सीधुरपङ्करस एव च ॥ ३४ ॥ ततुल्यो रसवीर्येण गौरस्त्वम्लगुणाधिकः ॥ शार्करो भृशाशीतत्वादृष्टो वातविवर्धनः ॥ ३५॥ पित्तकोपी तु तीक्ष्णत्वाकलेण्माणं च निरस्यति ॥ अरिष्टो दीपनीयत्वात्सर्वेभ्योऽभ्यधिकैर्गुणैः ॥ ३६ ॥ सर्वेदोषहरचैव नागानां मनुजाधिप ॥ " उष्णवीर्यश्च क्षश्च विपाके कटुकश्च सः ॥ ३७ ॥

  • ' तस्या दोषः ? इति भवेत् ।

१ क. पेिसप्रवर्धनीम्।