पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९ सुराप्रतिपानविध्यध्यायः] इंस्त्यायुर्वेदः । अपरेद्युश्च विश्रान्ते पुनः प्रातः पुरंजय ॥ चङ्क्रामितनिषण्णाय विनीते चैव हस्तिने ॥ ९ ॥ दद्यात्षडङ्गपानं तु बलवर्णकरं हितम् ॥ पिप्पली शृङ्गवेरं च मधु तैलं गुडं सुरा ॥ १० ॥ एकत्र मूर्छयित्वा च प्रतिपानं प्रदापयेत् ॥ तत्षडङ्गमतीपानमिति संज्ञा विधीयते ॥ ११ ॥ तेनास्य चीयते रक्तं बलं वर्णश्च जायते ॥ ये च प्रचलिता दोषा भवन्त्यध्वप्रयोजनात् ॥ १२ ॥ क्षुभ्यमानशरीरस्प वातपित्तकफादयः । एतेन प्रतिपानेन यथास्थानं नराधिप ॥ १३ ॥ शमं गच्छन्ति नागस्य दोषाय न भवन्ति वा । तत्षडङ्गप्रतीपानं विश्रान्ताय प्रदीयते ॥ १४ ॥ उत्पन्नगुणकां तीक्ष्णां वारुणीं जातवक्षसाम् । सुरां दद्यात्प्रयोगेण तैलं चैव न दापयेत् ॥ १५ ॥ अनयाऽध्वानं च सहते न च मूर्छति वारणः ॥ तृष्णा च न भवत्येव अनया पृथिवीपते ॥ १६ ॥ आ दशभ्यस्तु वर्षेभ्यः पोतकेभ्यो नराधिप ।। गोक्षीरं नवनीतं च सदा प्रातर्विधीयते ॥ १७ ॥ सर्पिषा चैव सेकः स्यात्सर्पिषा चैव भोजनम् ॥ नित्यमुत्कारिकां दद्याच्छालूकानि बिसानि च ॥ १८ ॥ एततु दद्यात्पोतेभ्यो ये चान्ये मधुरा रसाः ॥ आप्यायन्ते तथा पोता वपुचैषां न हीयते ॥ १९ ॥ स्थूलस्य मृदुमांसस्य क्षुभ्यन्तेऽङ्गानि यस्य च ॥ न तस्मै मेदकं दद्यात्तं यं कामाद्भीक्ष्णशः (?) ॥ २० ॥ तत्र श्रान्तं तथा स्विमं न च संक्रामयेद्वजम् ।। दद्यात्तैलोदकं पातुं योगवित्कुशलो भिषक् ॥ २१ ॥ कामं द्विपञ्चरात्रं च सोमवल्कयुतां सुराम् ॥ दद्यात्सगुडतैलं वा यथायोगं यथाविधि ॥ २२ ॥ छविः शोभा स्थिरा चास्य बलं चैव न हीयते ॥ विडङ्गमेदकौ चास्मै दद्याद्वा क्षीवमेदकौ ॥ २३ ॥