पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सौवीरकपानविध्यध्यायः] हस्त्यायुर्वेदः । वारणानां यथाकालं पच्यन्ते मनुजाधिप ।। ऋतुं वपः प्रमाणं च ग्रहण्याश्च बलाचलम् ॥ १२ ॥ देशं कालं च विज्ञाय ततः कुर्याचिकित्सितम् ॥, इत्येते विहिता राजनन्नपानूस्य वै गुणाः ॥ १३ ॥ पालकाप्येन मुनिना विनिश्चित्य यथातथम् ।। इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थानेऽ नपानगुणाधिकारो नाम सप्तदशोध्यायः ॥ १७ ॥ अथाष्टादशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । सीवीरकस्तु यः प्रोक्तो जानीयां सति तत्कथम् ॥ १ ॥ कथं वा सेचनं तस्य पालकाप्यस्ततोऽब्रवीत् ।। शिरस्रातोऽनुलिप्ताङ्गः शुक्रुवासाः समाहितः ॥ २ ॥ पूजां भपूज्य देवेभ्यः स्वस्ति वाच्य द्विजानपि ॥ तदर्थं साधयेदम्लं विमलं गृञ्जनादिकम् ।। ३ ।। आढकानां चसुःषष्टि (?) पुराणवृतभाजने ।। वचां विडङ्गं पिप्पल्यो मुद्राश्च मरिचानि च ॥ ४ ॥ शृङ्गवेरं मधुरसा पिप्पलीमूलमेव च । उभे हरिद्रे कुठं च मञ्जिष्ठा रोहिणी तथा ॥ ५ ॥ मधुकं लोभ्रमित्येषामेकैकस्य विचक्षणः । पलान्यर्धचतुर्थानि कुर्याद्वारपमत्र (?) वा ॥ ६ ॥ भछातकानां पञ्चाशदभयानां शतं तथा ।। शालजम्बूपलाशस्य पक्षस्य वरणस्य च ।। ७ ।। करञ्जस्य मधूकस्य सर्जस्य कुटुजस्य च । खदिरस्याश्वकर्णस्य यवस्यांऽऽम्रातकस्य च ॥ ८ ॥ विभीतकस्य निम्बस्य कृतमालस्य च त्वचः । ग्र(गु)डूची कोविदारस्य सप्तपर्णस्य च त्वचः ॥ ९ ॥ उदुम्बरत्वचा सार्ध मुष्ककत्वक्तथैव च ॥ एकैकस्य त्वचो भागं पलानि दशा कल्पयेत् ॥ १० ॥ ६५९