पृष्ठम्:हस्त्यायुर्वेदः.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ सद्यःक्षताध्यायः ] इस्लायुर्वेदः । ३७१ परशुपट्टिशकरपत्रैरशेषं निवत्पते तच्छिन्नमिति विद्यात् । तत्र तत्रैवानेक शोऽङ्गे तिर्यगुपगतः महारसंनिपातो यत्र दृश्यते तद्विच्छिन्नमिति विद्यात् । अङ्गुल्यग्राभ्यन्तरे हस्ते लाङ्गले नखे शिरसि कर्णयोर्वा यत्र द्विधा भेदमभि वर्तते तं दारितं विद्यात् । यदनुलोमं यावदस्थि कृत्यते मांसमेदःशिरास्रायू पगतं तदवनष्टं विद्यात् । अवनष्टादविशेषेण केवलं प्रतिलोममुन्नष्टं विद्यात् ।) तत्र तदवच्छिन्नं विच्छिन्नं दारितमवनष्टमुन्नष्टमतिविद्धावकृत्तसंभवानि (?) । अवमृष्टं द्विविधम्-गम्भीरान्तरगतत्वाद्विपुलमुखत्वाच । व्रणस्यावकृन्त नात्सहसाऽब्राण्यवसरन्ति तदा छिन्नात्रं कृिष्टात्रं वा विद्यात् । छिन्नान्नास्य रुधिरं मेहनात्मवर्तते, सर्वशस्त्राद्भीक्ष्णमुद्विजति, अरुषं चोष्णमुद्धमति, उन्न द्वकुक्षिः क्षितितलमभिगम्य पतति भूमाविति, मुहुर्मुहुर्हस्तं गृह्णाति । अस्य विपर्यये कृिष्टान्नम् । कृिष्टात्रे तु क्रियां प्रयुञ्जीत । तत्र तावदवकृत्तमाचार्याविविधमुपदिशन्ति-विरक्तावपाटितावगाढम् । तत्रान्तलेंहितमुपगतमांसश्वेतैमीषत्संचयोपगतं विरक्तं विद्यात् । अण्डकोश बस्त्युदरगुदेषु पाश्र्चयोर्मुत्रिं गात्रापरे हस्ते वा यावदामांसमवगतमवपाटितं विद्यात् । परथुपट्टिशकरपत्रादिघातैरङ्गपत्यङ्गेषु यावदस्थ्न्युपगतमवगाढं विद्यात् । गात्रापरंप्रैवेयरजुभिगढबन्धननिमित्तै स्या भागोपगतै श्रातिकर्कशैर्निघृष्टं भवति । तत्राशनिपतनजनुमधूच्छिष्टगुडामेध्यपाचकाकशीर्विवि)षाङ्गरैर्दग्धमुत्प द्यते । तत्र ज्वालाङ्गारपरंपराबाष्पसंतापात्मकं पञ्चविधं दग्धं बुवन्त्याचार्याः । तत्र पञ्चविधस्यामि(पि)दग्धस्य पिपासा त्वक्शोषो वेपथुः श्वयथुरिति सामान्यवे दनात्मकानि लिङ्गानि भवन्ति । अथ त्वग्गतोष्मण्यभ्यन्तरगतेऽौ नात्यर्थदाहस्फोटाः संभवन्ति त्वग्गताः । मांसगते त्वनले मकुथितमांसाऽसृगतिगमनं च भवति । यदा त्वङमांसमभिभूय शिरास्नायूपगतो भवत्पनलः, तदा मूर्छति, अत्यर्थ कालपर्ययाध व्रणेषु संरोहत् सिरास्नायूनां संकुचनं भवति । त्वङमांसशिरास्रायुमार्गमतीत्य यदा हुतभुगभिभवत्यनेकपम्, तदा दाह छमकम्पममोहा यथोक्तानि च त्वङमांसशिरास्नायुलिङ्गानि भवन्ति । १ क. ०त्रेषु क्रि० । २ क. "तभिषक्संच"। ३ “ररागैरेयं र"। ख. “रप्रैवेयं र० । ४ क. रास्योप० । ९ क.० त्यर्क कालपर्याया० । ६ क. संहरत्सु ।