पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ कार्याकार्यविध्यध्यायः ] इत्यायुर्वेदः । कषायं लवणं चैव निर्मलं च हितं भवेत् । निर्दोषाणामलाभे तु यथालामं पिबेज्जलम् ॥ ४४ ॥ जलावरोधान्म्रियते संमोहं वा नियच्छति । तस्मात्सर्वास्ववस्थासु पानीयं न निवारयेत् ।। १४५ ॥ अवगाहविधिचैव जलदोषाश्च कीर्तिताः ।। शयनोत्थानकाण्डानां वक्ष्यते विधिरुत्तमः ॥ ४६ ॥ भुक्तवन्तं प्रतिच्छ यवसेन तु वारणम् ।। . ग्रीष्मे संवेशयेद्रात्रौ गते त्वष्टार्धनाडिके ॥ ४७ ॥ शेषे षडूनालिके वाऽपि द्विपक्षशयनं गजम् ।। नरः प्रतिनयेत्स्थानमिति ग्रीष्मविधिः स्मृतः ।। ४८ ।। संवेशपेतु वर्षासु रात्रौ षड्र्नालिके गते । यथोत्तेनैव विधिना भुक्तवन्तं त्वनेकपम् ॥ ४९ ॥ अष्टभागिकशेषायां स्थानं प्रति नयेद्रजम् ।। इति संवेशनोत्थाने वर्षाकाले प्रकीर्तिते ।। १५० ।। हेमन्तकाले तु पुनर्यथेोक्तमशितं गजम् ।। संवेशयेद्वजं रात्रावतिक्रान्तेष्टनालिके ।। ५१ ॥ उभाभ्यामपि पक्षाभ्यामनुवृत्तमनेकपम् । पुनः प्रतिनयेत्स्थानं शेषे तु दशनालिके ।। ५३ ।। दिनानां दीर्घहस्वत्वं विज्ञाय क्रमशो भिषक् । यथोक्तक्रमतस्तेषां वर्धयेद्वा स भोजनम् ॥ ५३ ॥ शयनोत्थानशालानामित्ययं कीर्तितो विधिः ।। - निर्वाणं शयनं चैव सर्वर्तुषु च कीर्तितः (?) ॥ ५४ ॥ इति श्रीपालकाप्ये गजागुर्वेदे महाप्रवचन उत्तरस्थान ऋतुचर्याध्यायः पञ्चदशः ॥ १५ ॥ अथ षोडशोऽध्यायः । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति । कार्याकार्पविधिं कृत्स्र भगवन्वतुमर्हसि ॥ १ ॥ कस्मान्न दीयते तोयं भुक्तमात्राय दन्तिने ।। कस्मात्त्वास्यात्कृता न स्यात्तथा कर्म विधीयते ॥ २ ॥ १ ख. “डूनाडिके ।