पृष्ठम्:हस्त्यायुर्वेदः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचिता अथ द्वितीयोऽध्यायः । ' [ ३ शस्यस्थाने प्रतपन्निव भास्वन्तं मयूरकवचं दिवि । ऋषिं ब्रह्मविदां श्रेष्ठमादित्यसमतेजसम् । अङ्गराजो महाबुद्धिः पालकाप्यं स्म पृच्छति । द्विविधस्य ब्रणस्येह निदानं सचिकित्सितम् ॥ गजानां ब्रूहि तत्त्वेन तत्त्वार्थकुशलो ह्यसि । इत्येवमुक्तः शिष्येण ब्रह्मर्षिरखिलं ततः । व्याजहारोत्तरं श्रीमान्वाक्यं वाक्यविदां वरः ॥ अथातः सद्यःक्षतं नामाध्यायं व्याख्यास्यामः। इति ह स्माऽऽह भगवान्पा लकाप्यः । इह खलु भो(५) सद्यःक्षतमखिलमादावेव शृणु भद्रमुख, शरशक्तयूष्टितोम रपरश्वधविषाणाद्यभिहतशरीरा रुधिरैमुद्धमन्त इह गजा दृश्यन्ते व्रणेभ्पः, व्याघ्रसिंहनस्वदंष्ट्रावलुप्ताश्च । तेषां व्रणाभिघातलक्षणमशेषेण स्थानगतिसंस्था नप्रमाणविशेषांश्च वक्ष्यामः । तत्र द्विविधो ह्यात्मा ब्रणानाम्-आगन्तुः शरीरसमुत्थश्च । तत्राऽऽगन्तुरेकः । स तु नानाशस्राभिघातविशेषादनेकाकृतिविशेषान्पुष्णाति । तत्राऽऽकृष्टशरास नविप्रमुक्तस्येषोश्चतुर्विधो गतिविकारः प्रादुर्भवति-विद्धस्तुण्डितोऽतिविद्धो निर्विद्ध इति । तत्र पञ्चविधसंस्थानगतिविचारमाचष्टे तं कर्णिकानांलिकानारा चार्धचन्द्रवत्सदन्तैर्गम्भीरगतिविषयमेकतो गतिभेदमुपगतं विद्धं विद्यात् । (*तुल्यवेगमतिसंस्थानप्रचारमीषत्पतनत्वचो विशेषगतिनिर्भिन्नान्तरत्वचमुनु ण्डितं विद्यात् । उभपतो निर्भिन्नसायकं त्वङ्मांसशिरान्नायू "“द्वमभिविद्धं विद्यात् । एवमेव विद्धोतुण्डिताभिविद्धगतिमतीत्य शरीरमपास्प यत्सायको ब्रजति तं निर्विद्धम् । प्रायस(श)स्तु महाकापत्वाद्वारणानाम्, अल्पप्राणत्वाद्यधकानामुतुण्डिताभि विद्धनिर्विद्धानि मन्दमुपलभ्यन्ते । उद्भान्तविमुतातिविद्धनिसृतां गतिमुपगच्छतां व्रणानां छिन्नविच्छिन्नदा रितावनष्टोन्नष्टानामित्यत्र पश्वविधो व्रणविच्छेदविशेषोऽभिवर्तते । तत्र यदङ्गं

  • कपुस्तकत्रुटितोऽयं पाठः ।।

१ क. "र्षिस्तं ततः पुनः ॥ व्या" । २ क. “रमन्तर्देहा ग° । ३ क. "तेोऽ भिवि० । ४ क. ०नालीकाकारावर्ध० ।