पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऑविदाहेि च यन्मध विधिज्ञस्तत्शड़ापपेत् ॥ ७५ ॥ काले तस्मिनिशा स्वा कष्टश्चात्र तु जागरः ॥ तस्मादभिनयोस्थानं नार्तिरात्रकृतं भवेत् ॥ ७६ ॥ कट्टम्लोष्णविदाहीनि भोजनान्यौषधानि च ॥ घर्मकाले न शस्यन्ते यवसं तच्च तद्विधम् ।। ७७ ।। भाराध्वकर्मयोगांश्च नैव तत्र सैमाचरेत् । । प्रासाभिजननं बल्यं मनसश्च मसादनम् ॥ ७८ ॥ विधायोगं चतुर्भागं धुवलेष्पनौहिकम् ।। दापयेद्वीष्मकाले तु यथायोगं विभागतः ।। ७९ ॥ मधुफाणितसंयुतं मयं पवसमेव च । दुर्बलाश्वासियानाश्च क्षीणा ये च मतङ्गजाः ॥ ८० ॥ तेभ्पः प्रदापयेद्युक्तं हितं यत्पानभोजनम् ।। वर्षासु घर्मकालोण्णतापिता मेदिनी भृशम् ॥ ८१ ॥ अभिवृष्टा जलधरैवभावं नियच्छति ॥ सबाष्पतोपविष्यन्दं विरसं बहु मुञ्चति ॥ ८२ ।।' वृक्षौषधितृणानां तु वैरस्यं जापते तदा । तदा हुम्लो रसो वृद्धिं याति पित्तं च चीयते ॥ ८३ ।। विरसाम्लाविशेषत्वात्सलिलस्य तृणस्य च । वारणानां तदा वङ्गिमृदुत्वमुपगच्छति ॥ ८४ ।। वातादयोऽग्रिहीनानां कुप्यन्त्यत्र स्वभावतः । नदीतोयर्भविष्टानि पवसान्यौदकानि च ॥ ८५ ॥ व्यायामातपसेवा च दन्तिनां नात्र शस्यते । पाने स्वापः भवास्यन्ते कूपमस्रवणोद्भवाः ॥ ८६ ॥ पवर्गोधूमशाल्यवत्रं भोजनं च सफाणितम् ।। जाङ्गलानां तु मांसानां रसा पूषा संस्कृताः ॥ ८७ ॥ १ क. समाहरेत् । २ क, नाहनम् ॥ ३ क. प्रविष्टा ।