पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११. अन्नपानगुणाध्यायः] स्वाधुर्वेदः । एवमेकविधः कालो द्विविधोऽयनभेदतम् । अपने द्वे समारूपाते दक्षिणोत्रसंस्थितें ॥ ३ ॥ आदानं च विसर्गश्च संज्ञे. द्वे कीर्तिते मया ॥ उत्तरायणमादानं विसर्गे दक्षिणायनम् ॥ ४ ॥ तत्र त्वादानमाज्ञेयं विसर्गः सौम्य उच्यते । शिशिरश्च वसन्तश्च ग्रीष्मश्चाऽऽदानमुच्यते ॥ ५ ॥ विसर्गे वर्षे(?)विज्ञेयः शरद्धेमन्त एव च ॥ विसर्गे वायवो या(वा)न्ति नात्यर्थ रुक्षदारुणःणाः) ॥ ६ ॥ गुणैराप्यायते सोमश्चांशुभिः पूरयञ्जगत् । शश्वदाप्याययत्येवं यद्धलं विसृजत्यलम् ॥ ७ ॥ प्रवृत्तौ च निवृत्तौ च ज्ञेयं पयययोगतः । रसौ तत्राम्ललवणौ मधुरश्चापि इष्यते ।। ८ ।। त्रिग्धत्वाश्चापि कालस्य सौम्यत्वाच्च निसर्गतः ।। यथाक्रमं बलं तेजो जायते तत्र हस्तिनः ।। ९ ।। आदाने रुक्षपरुषा दारुणा वान्ति वायवः ।। उत्तराभिमुखे सूर्ये चन्द्रसैन्यं विहन्यते ॥ १० ॥ विवस्वानंशुभिस्तीक्ष्णैर्जगत्स्रहं प्रकर्षति । तस्मादादानमाप्रेयमृषपः परिचक्षते ।। ११ ।। कालस्वभावमार्गस्य तथेश्चरपरिग्रहात् ।। वाय्वर्कसोमा जगतो हेतुभूता न संशयः ॥ १२ ।। कालं तु रसदोषाणां तथा देहबलस्य च ॥ प्रवृत्तौ च निवृत्तौ च ज्ञेयाः (?) पर्यायोगतः ॥ १३ ॥ यथाक्रमं रौक्ष्यवृत्तिरादानस्योपदिश्यते ॥ तस्माक्षा रसास्तत्र विवर्धन्ते क्रमात्रयः ।। १४ ।। तिक्तः कषायः कटुकश्चतुर्थो नृस्ति कश्चन । क्रमादौर्बल्पमिच्छन्ति माणिनां रससेवनात् ॥ १५ ॥ सश्चाम्लोऽथ लवणो मधुरश्च विवर्धते । स्रिग्धत्वाचापि कालस्य सौम्यत्वाच्च निसर्गतः ॥ १६ ॥ .. १ क. *दूक्षर° ।