पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षौद्रेण सह संयुक्तं हन्ति सर्वामुपद्रवान् ॥ ८ ॥ मनःशिलां ताम्रचूर्ण मधूकं बृहतीफलम्। यावदेतानि सर्वाणि तावत्सैन्धवमाचरेत् ॥ ८९ ॥ अजाक्षीरेण तत्सर्वं श्लक्ष्णं दृषदि पीषपेत् । तं करुकं कारयेद्व िछायायां परिशोषयेत् ॥ ९० ॥ सलिलेनोपसंघृष्य चक्षुषी नित्यमञ्जपेत् ॥ लेखपेत्पटलं तत्तु शुष्काणि विविधानि च ॥ ९१ ॥ विभीतकपलाशानां भस्म शङ्खमयो रजः । सैन्धवं च समांशानि सर्पिषा सह साधपेतू ॥ ९२ ॥ कपाले तानि लिप्तानि दाहयेद्रेभयामिना ॥ तां मर्षी पीषयेच्छ्लक्ष्णां क्षौद्रेण सह संसृजेत् ॥ ९३ ॥ पटले बुद्बुदे चैव गूढे कुर्यात्तदञ्जनम् ॥ . लेख्या लेख्यास्तु ये चान्ये तथा रोगा पृथग्विधाः ॥ ९४ ॥ रक्तजेषु तु रोगेषु तात्रं भवति लेखनम् ॥ त्रिभागमर्धश् वा रुधिरेणाप्लुतं तथा ॥ ९५ ॥ नेत्रराजीस्तु ताः प्राहुस्तिर्यगूध्र्वप्रसारिताः ।। तासां योगे भवेद्रुखं दारुणं तीव्रवेदनम् ॥ ९६ ॥ पैत्तिकानां च रोगाणां समवायोपलक्षिते । काचाक्ष पूर्वयुक्तानां रक्ताभिष्यन्दितेषु च ॥ ९७ ।। अथवा रुधिरं यस्य पस्मात्प्रवति चक्षुषी ॥ रुधिरोदकपूर्णे वा रक्तस्रावीति तद्विदुः ॥ ९८ ॥ शिरसस्त्वभिघातेन चक्षुषी यस्य हस्तिनः ॥ संरम्भलोहिते स्यातां शृणु तस्य चिकित्सितम् ॥ ९९ ॥ अपसेकादि यत्किचित्पैत्तिकानामुदाहृतम् ॥ विधिः सर्वस्तु पूर्वोक्तो रक्तजानां विधिस्तथा ।। १०० ॥ त्रिकटुत्रिफलासमुद्रफेनशङ्कनाभिहरिद्रादारुहरिद्राहरितालमनःशिलाकुकु टाण्डकपालानि स्वर्णगैरिककालानुसारिवालशुनं तुत्थमयं चूर्ण मृद्वीकाशाबर मञ्जिष्ठासमभागानि कृत्वाऽक्षिसर्वरोगशिरोगवेदनोपशमनीकायपुष्पपटलबुडु दमांसवृद्धिलोहितराजीश्च जपति । १ क. पोषयेत्सूक्ष्मां । २ क. सर्वस्य ।