पृष्ठम्:हस्त्यायुर्वेदः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ त्रिणीयाध्वावः ] हस्त्यायुर्वेदः । निम्बार्करजनीपत्रैमृगाक्ष्या मूलसंयुतैः ॥ पचेतैलं भिषग्धीरो व्रणरोपणमुत्तमम् ॥ २५ ॥ एतैरेवौषधैः सर्वेः शिंशपासारमिश्रितैः । दुष्टत्रणेषु राजेन्द्र तैलं रोपणमुत्तमम् ॥ ५६ ॥ प्रियङ्गुका सर्जरसः पुष्पकासीसमञ्जनम् ॥ रोचना मधुकं रोझै चूर्ण रोपणमिष्यते ॥ ५७ ॥ तिनिसार्जुनसर्जानां शिपासोमवल्कयोः । । स्वदिरस्य च निष्काथो निम्बस्य च समावपेत् ।। ५८ । रसाञ्जनं रोहिणीं च मार्तुलुङ्गरसस्तथा । कासीसं हरितालं च रोपणी स्याद्रसक्रिया ॥ ५९ ॥ (व्रणदोषाविरोधेन यथासात्म्यं यथाक्यः । यथाग् िचेति कर्तव्या क्षीणानां बृहणक्रिया ॥ २६० ॥) गौरी हरिद्रे मधुकं मञ्जिष्ठा नीलमुत्पलम् । पटोलारिष्टपत्राणि मालतीनक्तमालयोः ॥ ६१ ।। घोण्टाफलत्वङाञ्जिष्ठा फलिनी रोधमेव च । एतेनैव विधानेन क्रमयुतेन दन्तिनाम् ॥ ६२ ॥ स्थूलानां द्वासनं कार्यं व्रणिनां भिषजा भवेत् । सोमवल्कप्रवालानि मदयन्ती मनःशिला ॥ मधुकं चेति जानीयाद्रणवर्णप्रसादनम् ॥ ६३ ॥ मधुकं मधु मञ्जिष्ठा क्षुद्वैला गोशकृद्धृतम् ॥ सवर्णकरणं ज्ञेयं दूर्वा सकटशर्करा ।। ६४ ।। इतीदं पालकाप्येन द्वित्रणीयस्य लक्षणम् ॥ कृत्स्नं भगवता प्रोक्तमङ्गराजाय धीमते ।। इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥ २६५ ॥ इति श्रीपालकाप्ये इस्त्यायुर्वेदमहाप्रवचने श्रीपाठे वृद्धोपदेशे तृतीये शाल्पस्थाने द्वित्रणीयो नाम प्रथमोऽध्यायः ॥ १ ॥ कपुस्तके त्रुटितम् । १ ख. “तुलिङ्ग ।