पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ अर्कस्फटिकवैडूर्यहरितालं मनःशिला ॥ ) कुकुटाण्डकपालानि हंसबर्हिणयोरपि ॥ १८ ॥ चन्दनं हरितालं च मुस्ता कालानुसारिवा ॥ मरिचानि व शुङ्कानि लेखनीयं तदक्षनम् ॥ १९ ॥ . अनाविलं सुप्रसभं शुद्धं स्फटिकमानयेत् ॥ सुवर्णेनपस्रष्टं तु सौवर्णे राजते स्थितम् ॥ २० ॥ कुठं हरिद्रा नलदं पिप्पल्यो मरिचानि च । अञ्जयैद्विपमेतेन परमं हि तदौषधम् ॥ २१ ॥ वसन्ते यवशूकानि परिशुष्काण्युपाहरेत् ।। तान्युषित्वा त्वजाक्षीरं रात्रीर्दश च पञ्च वा ॥ २२ ॥ तत उदृत्य शुष्काणि चूर्ण दृषदि कारयेत् ।। कुकुटाण्डकपालैश्च इंसशङ्खमुखस्य च ॥ २३ ॥ अञ्जयेन्मधुना मिश्र काचाकर्षणमक्षनम् ॥ अमृतासंज्ञां भद्रां च नाकुली गन्धनाकुली ॥ २४ ॥ एतत्प्रसन्नया पिष्टं लेखनं श्रेष्ठमक्षनम् ॥ शुण्ठया वा दधिमण्डश्च पिप्पल्यः सैन्धवस्तथा ॥ २५ ॥ किञ्जल्कं फाणितं किण्वं तथैव एवसत्कवः ॥ तण्डुलीयकमूलं च समागं च कारपेत् ॥ २६ ॥ अजाकरीषसुस्विकमजामूत्रेण पेषपेत् ॥ २७ ॥ एतङ्कोद्दितकं सम्यगक्षनं लेखनं भवेत् ॥ वसन्ते चैव पुष्पाणि सर्वाण्येव समाहरत् ॥ २८ ॥ पेषयेत्तानि वैका पिप्पलीलवणेन वा ॥ दृष्टः प्रसादनार्थाय एतच्छूटं हि भेषजम् ॥ २९ ॥ किंशुकस्य च पुष्पाणि मधुरं शर्करान्वितम् । एतत्क्षौद्रेण संयुकं शीतलं परिषेचनम् ॥ ३० ॥

  • धनुधिान्तरगतः पाठो नास्ति कपुस्तके ॥