पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अञ्जनदानाध्यायः ] हस्त्यायुवदः । ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥ शृणु मे निखिलं राजन्नञ्जनानामिमं विधिम् ॥ २ ॥ नखदन्तास्थिरोमाणि केशा वालास्तथैव च ॥ प्राणिनां खुरशृङ्गाणि लेखनायोपयोजयेत् ॥ ३ ॥ रोधादिद्रुमसाराश्च पाषाणा ये च केचन ॥ शङ्खदंष्ट्रा नखाः शक्तयो मणिर्मुक्ताश्च सर्वशः ॥ ४ ॥ वज्रप्रवाललवणं फलसाराश्च ये द्रुमाः ॥ मत्स्यकूर्मकपालानि पञ्च किंचन संहतम् ॥ ५ ॥ तत्सर्वं संस्कृतं द्रव्यं तथाऽत्रपटलान्यपि । लेखनायोपयुज्यन्ते प्रधानं तत्र वक्ष्यते ॥ १ ॥ सुवर्ण राजतं ताम्र सीसं कालायसं त्रपुः ॥ मणिमुक्ताप्रवालाश्च गजमुक्ताश्च शृङ्गजाः ॥ ७ ॥ ससारगलुस्फटिका वैडूर्यरुचकावपि ॥ अर्को विमलकचैव गोमेदाञ्जलपूलिकाः ।। ८ ।। सौगन्धिको लोहिताक्षस्तथा क्षीरपकश्च यः । तथा हस्तिवराहाणां व्याघ्रसिंहनस्वावपि ॥ ९ ॥ पाठीनरोहितास्थीनि कपालं कमठस्य च ॥ शमूर्धकपालानि गोपाश्चै महिषस्य च ॥ १० ॥ फलसारान्हरीतक्या बदर्याः किंशुकस्य वा ॥ आमलक्याः सस्वर्तृर्या डुमसाराः सचन्दनाः ॥ ११ ॥ सूमुद्रफेनः शङ्खश्च गर्दभस्य च पार्धकाः ॥ कुकुटाण्डकपालानि हंसस्य बर्हिणोरपि (?) ॥ १२ ॥ रजस्ताम्रायसं चैव निर्यासः खदिरस्य च । पलाशमेषगृङ्गयोष(च) निम्बस्य कुटजस्य च ॥ १३ ॥ पेषणार्थ प्रसन्नां वा मातुलुङ्गरसोऽपि वा । एतद्रसाञ्जनं नाम श्रेष्ठं काचापकृर्षणम् ॥ १४ ॥ पिप्पलीनां मषीं कृत्वा वत्रेणै परिगालिताम् ॥ केशाः कूर्मपलाशानि सैन्धवं लशुनाञ्जनम् ॥ १५ ॥ एतानि समभागानैि पीषपेच्छ्लक्ष्णचूर्णिताम् ॥ एतद्रसाञ्जनं नाम श्रेष्ठं काचापकर्षणम् ॥ १६ ॥ १'क. "मेदो जल० । २ क. *नि पेष० ।। ६३५