पृष्ठम्:हस्त्यायुर्वेदः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३४ पालकाप्यमुनिविरचितो- . [४.उत्तरस्थाने-- कलाममाणं निमेषतृषनं दद्यात् । यदा ज्ञानात्ममादाद्वा भिषगममाणेन विर कालं धूपपति, तदाऽस्य मुस्वशोषो भवति । न त्वत्पर्थ पवसकुवलं च पछवं व शुष्कोष्ठकण्ठहृदयतालूनामेतेषांमतिधूपनाच्छोषितबलानां पयसोपसेचनं पुनः पुनः प्रसादनमाहुराचार्याः । नस्यकर्मप्रधानमेतेनैव िवधिना विरिक्तार्धका पस्याभुक्तवतः पूर्वा मृदुन्नेहपाकमुपकल्पपेत् ।। यथाव्याधिप्रमाणेनौषधंद्रव्यैः क्षीरविपाकैः साधयित्वा द्वादशाङ्गलयितेन षोडशाङ्गुलपरिणाहेन कोलस्रोतःप्रमाणेन चिरकालं बस्तिना पीडयेत् । तत्र स्रोहभमाणं द्रोणे प्रस्थप्रमाणं दद्यात् । षडङ्गलानि विस्तारादुत्सेधाचतुरङ्गलः ॥ प्रस्थः सर्वप्रमाणेषु स्वकैरङ्गलपर्वभिः ॥ एतेनैव प्रमाणेन ज्ञेहविधिप्रमाणं विज्ञाप तस्यानुषेकं दद्यात्, क्षीरदाने यथापूर्वमभिहितम् । ॐहस्तक्षान्तिमस्य यथोक्तां सेवेत । एतेनैव विधानेन मासार्धमर्धमासं वा यावद्वा साधु मन्येत, तावद्देशकालबलनिश्चयं यथार्थतो विज्ञाप नस्यकर्म कुर्यात् । यथाकृतकर्माणं वारणं पयसा सर्पिषा वा यथानु भागप्रमाणं चतुर्भागमेव चारयित्वा भोजनं दद्यात् । भोजयित्वा मृदुवत्रेण प्रच्छादयित्वा मुस्वोदकानुपानं दद्यात् । अनुपानप्रयोजनं त्वन्नपाने द्रवीकृतोऽ स्याऽऽहारोऽन्तर्भूतोभिन्नसंघातः सम्यक्पाकमुपगच्छति ॥ तत्र श्लोकौ या झेहमात्रा तु यथावदुक्ता गजप्रमाणे विहिता पुरस्तात् ॥ सा कोष्ठमागम्य रसत्वमेत्य बलं तु नागे जनयत्यभीक्ष्णम् ॥ १ ॥ अप्रिं बलं वाऽपि हि क्र्धपित्वा कण्ठोरसोः पार्चकटित्रिकाणाम् ॥ संघातवर्णो मनसः प्रसादं दधाति नस्यं द्विरदेषु दसम् ॥ २ ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थाने नस्य दानं नाम त्रयोदशोऽध्यावः ॥ १३ ॥ अथ चतुर्दशोऽध्यायः । अङ्गो हि राजा चम्पापां पालकाप्यं स्म पृच्छति । अञ्जनानां क्रियायोगो भगवन्वतुमर्हसि ॥ १

  • ‘हस्तिशान्ति' इति भवेत् ।